________________ यागादावपि सत्त्वशुद्धिफलतो नेयं स्थितिर्दुष्टतः, . श्येनादेरिव सत्त्वशुद्ध्यनुदयात्तत्संभवादन्यतः // 55 // नन्वेवं किमु पूजयापि भवतां सिध्यत्यवद्योज्झिताद्भावापद्विनिवारणोचितगुणः सामायिकादेरपि / . सत्यं योऽधिकरोति दर्शनगुणोल्लासाय वित्तव्यये, तस्येयं महते गुणाय विफलो हेतुर्न हेत्वन्तरात् // 56 // अन्यारम्भवतो जिनार्चनविधावारम्भशङ्काभृतो, मोह: शासननिन्दनं च विलयो बोधेश्च दोषाः स्मृताः / . सङ्काशादिवदिष्यते गुणनिधिर्धर्मार्थमृद्ध्यर्जनं, शुद्धालम्बनपक्षपातनिरतः कुर्वन्नुपेत्यापि हि // 57 // यः श्राद्धोऽपि यतिक्रियारतमतिः सावद्यसंक्षेपकृत्, भीरुः स्थावरमर्दनाच्च यतनायुक्तः प्रकृत्यैव च / तस्यात्रानधिकारितां. वयमपि ब्रूमो वरं दूरतः, पङ्कास्पर्शनमेव तत्कृतमलप्रक्षालनापेक्षया // 58 // धमार्थं सृजतां क्रियां बहुविधां हिंसा न धर्मार्थिका, ' हिंसांशे न यतः सदाशयभृतां वाञ्छा क्रियांशे परम् / न द्रव्याश्रवतश्च बाधनमपि स्वाध्यात्मभावोन्नतेरारम्भादिकमुच्यते हि समये योगस्थितिव्यापकम् // 59 // पूजायां खलु भावकारणतया हिंसा न बन्धावहा, गौणीत्थं व्यवहारपद्धतिरियं हिंसा वृथा निश्चये। भावः केवलमेक एव फलदो बन्धोऽविरत्यंशजस्त्वन्यः कूपनिदर्शनं तत इहाशङ्कापदं कस्यचित् / // 60 // / 280