________________ वैयावृत्त्यमथैवमापतति वस्तुर्ये गुणस्थानके, यस्माद्भक्तिरभंङ्गा भगवतां तत्रापि पूजाविधौ / सत्यं दर्शनलक्षणेऽत्रं विदितेऽनन्तानुबन्धिव्ययान्नो हानि त्वयि निर्मलां धियमिव प्रेक्षामहे कामपि // 50 // श्राद्धानां तपसः परं गुणतया सम्यक्त्वमुख्यत्वतः, सम्यक्त्वाङ्गमियं तपस्विनि मुनौ प्राधान्यमेषाऽश्नुते / धीीलाङ्गतयोपसर्जनविधां धत्ते यथा शैशवे, तारुण्ये व्यवसायसंभृततया सा मुख्यतामञ्चति // 51 // अर्थं काममपेक्ष्य धर्ममथबा निघ्नन्ति ये प्राणिनः, प्रश्नव्याकरणे हि मन्दमतयस्ते दर्शितास्तत्कथम् / / पुष्पाम्भोदहनादिजीववधतो निष्पाद्यमानां सुरै(जनैः), पूजां धर्मतया प्रसह्य वदतां जिब न नः कम्पताम् ? // 52 // भोः पापा भवतां भविष्यति जगद्वैद्योक्तिशङ्काभृतां, किं मिथ्यात्वमरुत्प्रकम्पवशतः सर्वाङ्गकम्पोऽपि न / यो धर्माङ्गतया वधः कुसमये दृष्टोऽत्र धर्मार्थिका, सा हिंसा न तु सक्रियास्थितिरिति श्रद्धैव सद् भेषजम् // 53 // यागीयो वध एव धर्मजनकः प्रोक्तः परैः स्वागमे, नास्मिन्नौघनिषेधदर्शितफलं कार्यान्तराश्रिते / दाहे क्वापि यथा सुवैद्यकबुधैरुत्सर्गतो वारिते, धर्मत्वेन धृतोऽप्यधर्मफलको धर्मार्थकोऽयं वधः अस्माकं त्वपवादमाकलयतां दोषोऽपि दोषान्तरोच्छेदी तुच्छफलेच्छया विरहितश्चोत्सर्गरक्षाकृते / // 54 // 279