________________ उन्मार्गस्थिरता न्यषेधि न पुनश्चैत्यस्थितिः सूरिणा, वाग्भङ्गी किमु यद्यपीति न मुखं वक्र विधत्ते तव // 44 // यत्कर्मापरदोषमिश्रिततया शास्त्रे विगीतं भवेत्, स्वाभीष्टार्थलवेन शुद्धमपि तल्लुम्पन्ति दुष्टाशयाः / . मध्यस्थास्तु पदे पदे धृतधियः संबन्थ्य सर्वं बुधाः, शुद्धाशुद्धविवेकतः स्वसमयं निःशल्यमातन्वते // 45 // तेनाकोविदकल्पितश्चरणभृद्यात्रानिषेधोद्यत-' श्रीवज्रार्यनिदर्शनेन सुमुनेत्रानिषेधो हतः / . स्वाच्छन्द्येन निवारिता खलु यतश्चन्द्रप्रभस्यानतिः, प्रत्यज्ञायि महोत्तरं पुनरियं सा तैः स्वशिष्यैः सह // 46 // नो यात्रा प्रतिमानतिर्वतभृतां साक्षादनादेशनात्, तत्प्रश्नोत्तरवाक्य इत्यपि वचो मोहज्वरावेशजम् / मुख्याथैः प्रथिता यतो व्यवहतिः शेषान् गुणान् लक्षयेत्, सामग्र्येण हि यावताऽस्ति यतना यात्रा स्मृता तावता // 47 // वैयावृत्त्यतया तपो भगवतां भक्तिः समग्राऽपि वा, . वैयावृत्त्यमुदाहृतं हि दशमे चैत्यार्थमङ्गे स्फुटम् / . नैतत्स्यादशनादिनैव भजनाद्वाराऽपि किं त्वन्यथा, सङ्घादेस्तदुदीरणे बत कथं न व्याकुलः स्यात्परः // 48 // ज्ञानं चैत्यपदार्थमत्र वदतः प्रत्यक्षबाधैकतो, धर्मिद्वारतया मुनावधिकृते त्वाधिक्यधीरन्यतः / दोषायेति परः परः शतगुणप्रच्छादनात् पातकी, * * दग्धां गच्छतु पृष्ठतश्च पुरतः कां कांदिशीको दिशम् // 49 // 208