________________ एतेनैव समर्थिता जिनपतेः श्रीनाभिभूपान्वयव्योमेन्दोः सुतनीवृतां विभजना शिल्पादिशिक्षापि च / अंशोऽस्यां बहुदोषवारणमतिश्रेष्ठो हि नेष्टोऽपरो, न्यायोऽसावपि दुर्मतद्रुमवनप्रोद्दामदावानलः // 39 // किं योग्यत्वमकृत्स्नसंयमवतां पूजासु पूज्या जगुः, श्राद्धानां न महानिशीथसमये भक्त्या त्रिलोकीगुरोः / नन्दीदर्शितसूत्रवृन्दविदितप्रामाण्यमुद्राभृतो, निद्राणेषु पतन्ति डिण्डिमडमत्कारा इवैता गिरः // 40 // यद्दानादिचतुष्कतुल्यफलता संकीर्तनं या पुनद्वौं श्राद्धस्य परो मुनेः स्तव इति व्यक्ता विभागप्रथा / यच्च स्वर्णजिनौकसः समधिको प्रोक्तौ तप:संयमौ, तत्सर्वं प्रतिमार्चनस्य किमु न प्राग्धर्मताख्यापकम् // 41 // प्रामाण्यं न महानिशीथसमये प्राचामपीत्यप्रियं, यत्तुर्याध्ययने न तत्परिमितैः केषाञ्चिदालापकैः / वृद्धास्त्वाहुरिदं न सातिशयमित्याशङ्कनीयं क्वचित्, तत्किं पाप ! तवापदः परगिरां प्रामाण्यतो नोदिताः // 42 // भ्रष्टैश्चैत्यकृतेऽर्थितः कुवलयाचार्यो जिनेन्द्रालये, यद्यप्यस्ति तथाप्यदः सतम इत्युक्त्वा भवं तीर्णवान् / एतत् किं नवनीतसारवचनं नो मानमायुष्मतां, यत्कुर्वन्ति महानिशीथबलतो द्रव्यस्तवस्थापनम् // 43 // भ्रान्त प्रान्तधिया किमेतदुदितं पूर्वापरानिश्चयात्, येन स्वश्रमक्लुप्तचैत्यममता मूढात्मनां लिङ्गिनाम् / 270