________________ वैरव्याधिविरोधमत्सरमदक्रोधैश्च नोपप्लवस्तत्को नाम गुणो न दोषदलनो द्रव्यस्तवोपक्रमे // 33 // सत्तन्त्रोक्तदशत्रिकादिकविधौ सूत्रार्थमुद्राक्रिया योगेषु प्रणिधानतो व्रतभृतां स्याद्भावयज्ञो ह्ययम् / भावापद्विनिवारणाबहुगुणे ह्यप्यत्र हिंसामतिमूंढानां महती शिला खलु गले जन्मोदधौ मज्जताम् // 34 // सम्यग्दृष्टिरयोगतो भगवतां सर्वत्र भावापदं, भेत्तुं तद्भवने तदर्चनविधि कुर्वन्न दुष्टो भवेत् / वाहिन्युत्तरणोद्यतो मुनिरिव द्रव्यापदं निस्तरन्, वैषम्यं किमिहेति हेतुविकलः शून्यं परं पश्यतु // 35 // नो नद्युत्तरणे मुनेनियमनाद्वैषम्यमिष्टं यतः, पुष्टालम्बनकं न तन्नियमितं किंतु श्रुते रागजम् / अस्मिन् सत्त्ववधे वदन्ति किल येऽशक्यप्रतीकारतां, तैनिन्दामि पिबामि चाम्भ इति हि न्यायः कृतार्थः कृतः // 36 // यन्नद्युत्तरणं प्रवृत्तिविषयो ज्ञानादिलाभार्थिनां, दुष्टं तद्यदि तत्र कः खलु विधिव्यापारसारस्तदा / तस्मादीदृशकर्मणीहितगुणाधिक्येन निर्दोषतां, ज्ञात्वापि प्रतिमार्चनात्पशुरिव त्रस्तोऽपि किं दुर्मते ! // 37 // गन्दङ्गविघर्षणैरपि सुतं मातुर्यथाऽहेर्मुखात्, कर्षन्त्या न हि दूषणं ननु तथा दुःखानलाचिर्भूतात् / संसारादपि कर्षतो बहुजनान् द्रव्यस्तवोद्योगिनस्तीर्थस्फातिकृतो न किञ्चन मतं हिंसांशतो दूषणम् . // 38 // 26