________________ तस्मात्त्वन्मदभेदबुद्ध्युदयतो नो युष्मदस्मत्पदोल्लेखः किञ्चिद्गोचरं तु लसति ज्योतिः परं चिन्मयम् // 99 // किं ब्रह्मैकमयी किमुत्सवमयी श्रेयोमयी किं किमु, .. ज्ञानानन्दमयी किमुन्नतिमयी किं सर्वशोभामयी / इत्थं कि किमिति प्रकल्पनपरैस्त्वमूर्तिरुद्वीक्षिता, किं सर्वातिगमेव दर्शयति सद्ध्यानप्रसादान्महः // 100 // त्वद्रूपं परिवर्त्ततां हृदि मम ज्योतिः स्वरूपं प्रभो ! . तावद्यावदरूपमुत्तमपदं निष्पापमाविर्भवेत् / यत्रानन्दघने सुरासुरसुखं संपिण्डितं सर्वतो, भागेऽनन्ततमेऽपि नैति घटनां कालत्रयीसंभवि // 101 // स्वान्तं शुष्यति दह्यते च नयनं भस्मीभवत्याननं, दृष्ट्वा तत्प्रतिमामपीह कुंधियामित्याप्तलुप्तात्मनाम् / अस्माकं त्वनिमेषविस्मितदृशां रागादिमां पश्यतां, सान्द्रानन्दसुधानिमज्जनसुखं व्यक्तीभवत्यन्वहम् // 102 // मन्दारद्रुमचारुपुष्पनिकरैर्वृन्दारकैरचितां, सन्दाभिनतस्य निर्वृतिलताकन्दायमानस्य ते / निस्यन्दात् स्नपनामृतस्य जगती पान्तीममन्दामयाऽवस्कन्दात्प्रतिमां जिनेन्द्र ! परमानन्दाय वन्दामहे तपगणमुनिरुद्यत्कीर्त्तितेजोभृतां श्रीनयविजयगुरूणां पादपद्मोपजीवी / शतकमिदमकार्षीद्वीतरागैकभक्तिः प्रथितशुचियशः श्रीरुल्लसद्व्यक्तयुक्तिः * // 104 // 288 .