________________ शकेऽवग्रहदातृता व्रतभृतां निष्पापवाग्भाषिता, सच्छर्माद्यभिलाषिता च गदिता प्रज्ञप्तिसूत्रे स्फुटम् / इत्युच्चैरतिदेशपेशलमतिः सम्यग्दृशां स्वःसदां, धर्मित्वप्रतिभूः खलस्खलनकृद्धर्मस्थिति जानताम् // 17 // देवानामपि भक्तिकृत्यमपि न श्लाघ्यं यतीनां यतः, सूर्याभः कृतनृत्यदर्शनरुचिप्रश्नोऽर्हता ऽनादृतः / हन्तेयं जडचातुरी गुरुकुले कुत्र त्वया शिक्षिता, सर्वत्रापि हि पण्डितैरनुमतं येनानिषिद्धं स्मृतम् // 18 // इच्छा स्वस्य न नृत्यदर्शनविधौ स्वाध्यायभङ्गः पुनः, साधूनां त्रिदशस्य चातिशयिनी भक्तिर्भवध्वंसिनी / तुल्यायव्ययतामिति प्रतियता तूष्णीस्थितं स्वामिना, बाह्यस्तत्प्रतिषेधको न कलयेत्तद्वंशजानां स्थितिम् // 19 // सावधं व्यवहारतोऽपि भगवान् साक्षात् किलानादिशन्, बल्यादिप्रतिमार्चनादि गुणकृन्मौनेन संमन्यते / नत्यादि धुसदां तदाचरणतः कर्त्तव्यमाह स्फुटं, योग्येच्छामनुगृह्य वा व्रतमतश्चित्रो विभोर्वाक्क्रमः // 20 // दानादाविव भक्तिकर्मणि विभुर्दोषान्निषेधे विधौ, मौनी स्यादिति गीर्मुषैव कुधियां दुष्टे निषेधस्थितेः / अन्यत्र प्रतिबन्धतोऽनभिमतत्यागानुपस्थापनात्, प्रज्ञाप्ये विनयान्विते विफलताद्वेषोदयासंभवात् // 21 // ज्ञातैः शल्यविशादिभिर्नु भरतादीनां निषिद्धा यथा, कामा नो जिनसद्मकारणविधिर्व्यक्तं निषिद्धस्तथा / 203