________________ तीर्थेशानुमते पराननुमतेव्यस्तवे किं ततो, . नेष्टा चेज्ज्वरिणां ततः किमु सिता माधुर्यमुन्मुञ्चति // 22 // साधूनां वचनं च चैत्यनमनश्लाघार्चनोद्देशतः, कायोत्सर्गविधायकं ह्यनुमति द्रव्यस्तवस्याह यत् / तत्किं लुम्पक ! लुम्पतस्तव भयं दुःखौघहालाहलज्वालाजालमये भवाहिवदर्ने पातेन नोत्पद्यते // 23 // किं हिंसानुमतिर्न संयमवतां द्रव्यस्तवश्लाघयेत्येतल्लुम्पकलुब्धकस्य वचनं मुग्धे मृगे वागुरा / हृद्याधाय सरागसंयम इव त्यक्ताश्रवांशाः स्थिता, भावाङ्गांशमदूषणा इति पुनस्तच्छेदशस्त्रं वचः // 24 // मिश्रस्यानुपदेश्यता यदि तदा श्राद्धस्य धर्मस्तथा, सर्वः स्यात्सदृशी नु दोषघटना. सौत्रक्रमोल्लङ्घनात् / तत्सम्यग्विधिभक्तिपूर्वमुचितद्रव्यस्तवस्थापने, विद्मो नापरमत्र लुम्पकमुखम्लानि विना दूषणम् // 25 // . नाशंसानुमतिर्दयापरिणतिस्थैर्यार्थमुद्यच्छतां, संवासानुमतिस्त्वनायतनतो दूरस्थितानां कथम् / हिंसाया अनिषेधनानुमतिरप्याज्ञास्थितानां न यत्, साधूनां निरवद्यमेव तदिदं द्रव्यस्तवश्लाघनम् // 26 // साधूनामनुमोद्यमित्यथ न किं कर्त्तव्यमर्चादिकं, सत्यं केवलसाहचर्यकलनान्नेष्टाऽनुमानप्रथा / व्याप्ति: क्वापि गता स्वरूपनिरयाचारादुपाधेस्तव, क्लीबस्येव वृथा वधूनिधुवने तद्बाल ! तर्के रतिः / // 27 // . 204