________________ याति प्रच्युतवर्णकर्णकुहरे तप्तत्रपुत्वं नृप . प्रश्नोपाङ्गसमर्थिता हतधियां व्यक्ता तथा पद्धतिः / // 11 // नात्र प्रेत्य हितार्थतोच्यत इति व्यक्ता जिना स्थिति र्देवानां न तु धर्महेतुरिति ये पूत्कुर्वते दुधियः / प्राक् पश्चादिव रम्यतां परभवश्रेयोऽर्थितासङ्गतां, प्राक् पश्चाच्च हितार्थितां श्रुतवतां पश्यन्त्यहो ते न किम् // 12 // वाप्यादेरिव पूजना दिविषदां मूर्तेजिनानां स्थितिः, सादृश्यादितिं ये वदन्ति कुधियः पश्यन्ति भेदं तु न / एकत्वं यदि ते वदन्ति निजयोः स्त्रीत्वेन जायाम्बयोस्तत्को वा यततामसंवृततरं वक्त्रं पिधातुं बुधः // 13 // सद्धर्मव्यवसायपूर्वकतया शकस्तवप्रक्रियाभावभ्राजितहृद्यपद्यरचनालोकप्रणामैरपि / ईक्षन्तेऽतिशयं न चेद्भगवतां मूर्त्यर्चने स्व:सदां, . बालास्तत्पथि लौकिकेऽपि शपथप्रत्यायनीया न किम् // 14 // भव्योऽभ्यग्रगबोधिरल्पभवभाक् सदृष्टिराराधको, यश्चोक्तश्चरमोऽर्हता स्थितिरहो सूर्याभनाम्नोऽस्य या / सा कल्पस्थितिवन्न धर्मपरतामत्येति भावान्वयात्, मा कार्युभ्रंममत्र केऽपि पिशुनैः शब्दान्तरैर्वञ्चिताः // 15 // सद्भक्त्यादिगुणान्वितानपि सुरान् सम्यग्दृशो ये ध्रुवं, मन्यन्ते स्म विधर्मणो गुरुकुलभ्रष्टा जिनार्चाद्विषः / देवाशातनयाऽनया जिनमतान्मातङ्गवल्लेभिरे, .. स्थानाङ्गप्रतिषिद्धया विहितया ते सर्वतो बाह्यताम् . // 16 // 272