________________ प्रज्ञप्तौ प्रतिमानतिर्न विदिता किं चारणैर्निर्मिता, तेषां लब्ध्युपजीवनाद्विकटनाभावात्त्वनाराधना / सा कृत्याकरणादकृत्यकरणाद्भग्नव्रतत्वं भवेदित्येता विलसन्ति सन्नयसुधासारा बुधानां गिरः तेषां न प्रतिमानतिः स्वरसतो लीलानुषङ्गात्तु सा, लब्ध्याप्तादिति कालकूटकवलोद्गारा गिरः पाप्मनाम् / हन्तैवं न कथं नगादिषु नतिर्व्यक्ता कथं चेह सा, चैत्यानामिति तर्ककर्कशगिरा स्यात्तन्मुखं मुद्रितम् // 7 // ज्ञानं चैत्यपदार्थमाह न पुनर्मूर्ति प्रभोर्यो द्विषन्, वन्द्यं तत्तदपूर्ववस्तुकलनादृष्टार्थसंचार्यपि / / धातुप्रत्ययरूढिवाक्यवचनव्याख्यामजानन्नसौ, . प्रज्ञावत्सु जडः श्रियं न लभते काको मरालेष्विव अर्हच्चैत्यमुनीन्दुनिश्रिततया शकासनक्ष्मावधि, प्रज्ञप्तौं भगवाञ्जगाद चमरस्योत्पातशक्तिं ध्रुवम् / / जैनी मूर्तिमतो न योऽत्र जिनवजानाति जानाति कस्तं मर्त्य बत श्रृङ्गपुच्छरहितं स्पष्टं पशुं पण्डितः // 9 // मूर्तीनां त्रिदशैस्तथा भगवतां सक्थ्नां सदाऽऽशातना त्यागो यत्र विधीयते जगति सा ख्याता सुधर्मा सभा / इत्यन्वर्थविचारणापि हरते निद्रां दृशोर्दुनयध्वान्तच्छेदरविप्रभा जडधियं घूकं विना कस्य न // 10 // प्राक्पश्चाच्च हितार्थतां हृदि विदन् तैस्तैरुपायैर्यथा, मूर्तीः पूजितवान्मुदा भगवतां सूर्याभनामा सुरः / // 8 // 201