________________ // 1 // . // 2 // // प्रतिमाशतकम् // ऐन्द्रश्रेणिनता प्रतापभवनं भव्याङ्गिनेत्रामृतं, सिद्धान्तोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृता / . मूर्तिः स्फुतिमती सदा विजयते जैनेश्वरी विस्फुरन् मोहोन्मादघनप्रमादमदिरामत्तैरनालोकिता नामादित्रयमेव भावभगवत्ताद्रूप्यधीकारणं, शास्त्रात्स्वानुभवाच्च शुद्धहृदयैरिष्टं च दृष्टं मुहुः / . तेनार्हत्प्रतिमामनादृतवतां भावं पुरस्कुर्वतामन्धानामिव. दर्पणे निजमुखालोकार्थिनां का मतिः लुप्तं मोहविषेण किं. किमु हतं मिथ्यात्वदम्भोलिना, मग्नं किं कुनयावटे किमु मनो लीनं तु दोषाकरे / प्रज्ञप्तौ प्रथमं नतां लिपिमपि ब्राह्मीमनालोकयन्, वन्द्याऽर्हत्प्रतिमा न साधुभिरिति ब्रूते. यदुन्मादवान् किं नामस्मरणेन न प्रतिमया किंवा भिदा कानयोः, . सम्बन्धः प्रतियोगिना न सदृशो भावेन किंवा द्वयोः / तद्वन्द्यं द्वयमेव वा जडमते ! त्याज्यं द्वयं वा त्वया, स्यात्तर्कादत एव लुम्पकमुखे दत्तो मषीकूर्चकः स्वान्तं ध्वान्तमयं मुखं विषमयं दृग्धूमधारामयी, तेषां यैर्न नता स्तुता न भगवन्मूर्तिर्न वा प्रेक्षिता / देवैश्चारणपुङ्गवैः सहृदयैरानन्दितैर्वन्दितां, .. ये त्वेनां समुपासते कृतधियस्तेषां पवित्रं जनुः / // 3 // // 4 // // 5 // 200