________________ जज्वाल नान्तश्च सु(न)राधमेन प्रोज्वालितेऽपि ज्वलनेन मौलौ / मौलिर्मुनीनां स न कैनिषेव्यः कृष्णानुजन्मा समतामृताब्धिः // 19 // गङ्गाजले यो न जहौ सुरेण विद्धोऽपि शूले समतानुवेधम् / प्रयागतीर्थोदयकृन्मुनीनां मान्यः स सूरिस्तनुजोऽन्निकायाः // 20 // स्त्रीभ्रूणगोब्राह्मणघातजात-पापादधःपातकृताभिमुख्याः / दृढप्रहारिप्रमुखाः क्षणेन साम्यावलम्बात्पदमुच्चमापुः // 21 // अप्राप्तधर्माऽपि पुरादिमाईन्-माता शिवं यद्भगवत्यवाप / नाप्नोति पारं वचसोऽनुपाधि-समाधिसाम्यस्य विजृम्भितं तत् 22 इति शुभमतिर्मत्वा साम्यप्रभावमनुत्तरं य इह निरतो नित्यानन्दः कदापि न खिद्यते / विगलदखिलाविद्यः पूर्णस्वभावसमृद्धिमान् स खलु लभते भावारीणां जयेन यश:श्रियम् / // 23 // 29