________________ शुद्धात्मतत्त्वप्रगुणा विमर्शाः स्पर्शाख्यसंवेदनमादधानाः / यदान्यबुद्धि विनिवर्तयन्ति तदा समत्वं प्रथतेऽवशिष्टम् // 7 // विना समत्वं प्रसरन्ममत्वं सामायिकं मायिकमेव मन्ये / आये समानां सति सद्गुणानां शुद्धं हि तच्छुद्धनया विदन्ति // 8 // निशानभोमन्दिररत्नदीप्र-ज्योतिभिरुद्योतितपूर्वमन्तः / विद्योतते तत्परमात्मतत्त्वं प्रसृत्वरे साम्यमणिप्रकाशे . // 9 // / एकां विवेकाङ्कुरितां श्रिता यां निर्वाणमापुर्भरतादिभूपाः / सैवर्जुमार्गः समता मुनीनामन्यस्तु तस्या निखिलः प्रपञ्चः // 10 // अल्पेऽपि साधुन कषायवहा-वह्नाय विश्वासमुपैति भीतः / प्रवर्धमानः स दहेद् गुणौघं साम्याम्बुपूरैर्यदि नापनीतः // 11 // प्रारब्धजा ज्ञानवतां कषाया आभासिका इत्यभिमानमात्रम् / नाश्यो हि भाव: प्रतिसंख्यया यो नाबोधवत्साम्यरतौ स तिष्ठेत् // 12 साम्यं विना यस्य तपःक्रियादे निष्ठा प्रतिष्ठार्जनमात्र एव / स्वर्धेनुचिन्तामणिकामकुम्भान् करोत्यसौ काणकपर्दमूल्यान् // 13 // ज्ञानी क्रियावान् विरतस्तपस्वी ध्यानी च मौनी स्थिरदर्शनश्च / साधुर्गुणं तं लभते न जातु प्राप्नोति यं साम्यसमाधिनिष्ठः // 14 // दुर्योधनेनाभिहतचकोप न पाण्डवैर्यो न नुतो जहर्ष / स्तुमो भदन्तं दमदन्तमन्तः समत्ववन्तं मुनिसत्तमं तम् // 15 // यो दह्यमानां मिथिलां निरीक्ष्य शक्रेण नुन्नोऽपि नमिः पुरीं स्वाम् / न मेऽत्र किंचिज्ज्वलतीति मेने साम्येन तेनोरूयशो वितेने // 16 // साम्यप्रसादास्तवपुर्ममत्वाः सत्त्वाधिकाः स्वं ध्रुवमेव मत्वा / न सेहिरेति किमु तीव्रयन्त्रकनिष्पीडिताः स्कन्धकसूरिशिष्याः 17 लोकोत्तरं चारुचरित्रमेतन्मेतार्यसाधोः समतासमाधेः / हृदाप्यकुप्यन्न यदाचर्मबद्धेऽपि मूर्धन्ययमाप तापम् // 18 // 268