________________ प्रीतिभक्तिवचोऽसङ्गरनुष्ठानं चतुर्विधम् / यत्पर्योगिभिर्गीतं तदित्थं युज्यतेऽखिलम् // 41 // ज्ञाने चैव क्रियायां च युगपद्विहितादरः / द्रव्यभावविशुद्धः सन् प्रयात्येव परं पदम् // 42 // क्रियाज्ञानसंयोगविश्रान्तचित्ताः समुद्भूतनिर्बाधचारित्रवृत्ताः / नयोन्मेषनिर्णीतनिःशेषभावास्तपःशक्तिलब्धप्रसिद्धप्रभावाः // 43 // भयक्रोधमायामदाज्ञाननिद्राप्रमादोज्झिताः शुद्धमुद्रा मुनीन्द्राः / यशः श्रीसमालिगिता वादिदन्तिस्मयोच्छेदहर्यक्षतुल्या जयन्ति // 44 // साम्ययोगशुद्धिः चतुर्थोऽधिकारः ज्ञानक्रियाश्वद्वययुक्तसाम्य-रथाधिरूढः शिवमार्गगामी / न ग्रामपू:कण्टकजारतीनां जनोऽनुपानत्क इवातिमेति // 1 // आत्मप्रवृत्तावतिजागरूक: परप्रवृत्तौ. बधिरान्धमूकः / / सदा चिदानन्दपदोपयोगी लोकोत्तरं साम्यमुपैति योगी // 2 // परीषहैश्च प्रबलोपसर्ग-योगाच्चलत्येव न साम्ययुक्तः / स्थैर्याद्विपर्यासमुपैति जातु क्षमा न शैलैर्न च सिन्धुनाथैः // 3 // इतस्ततो नारतिवह्रियोगा-दुड्डीय गच्छेद्यदि चित्तसूतः / साम्यैकसिद्धौषधमूर्छितः सन् कल्याणसिद्धेर्न तदा विलम्बः // 4 // अन्तर्निमग्नः समतासुखाब्धौ बाह्ये सुखे नो रतिमेति योगी / अटत्यटव्यां. क इवार्थलुब्धो गृहे समुत्सर्पति कल्पवृक्षे // 5 // यस्मिन्नविद्यार्पितबाह्यवस्तु-विस्तारजभ्रान्तिरुपैति शान्तिम् / तस्मिंश्चिदेकार्णवनिस्तरङ्ग-स्वभावसाम्ये रमते सुबुद्धिः // 6 // 20.