________________ // 29 // // 30 // // 31 // // 32 // // 33 // // 34 // अन्यादृष्टस्य तत्पातप्रतिबन्धकतां नयेत् / . म्रियमाणोऽपि जीव्येत शिष्यादृष्टवशाद् गुरुः स्वभावान्निरुपादानं यदि विद्वत्तनुस्थितिः / / तथापि कालनियमे तत्र युक्तिर्न विद्यते उच्छृङ्खलस्य तच्चिन्त्यं मतं वेदान्तिनो ह्यदः / प्रारब्धादृष्टतः किंतु ज्ञेया विद्वत्तनुस्थितिः तत्प्रारब्धेतरादृष्टं ज्ञाननाश्यं यदीष्यते / लाघवेन विजातीयं तन्नाश्यं तत्प्रकल्प्यताम् इत्थं च ज्ञानिनो ज्ञाननाश्यकर्मक्षये सति / क्रियैकनाश्यकौघक्षयार्थं सापि युज्यते सर्वकर्मक्षये ज्ञानकर्मणोस्तत्समुच्चयः / अन्योऽन्यप्रतिबन्धेन तथा चोक्तं परैरपि' न यावत्सममभ्यस्तौ ज्ञानसत्पुरुषक्रमौ / एकोऽपि नैतयोस्तावत्पुरुषस्येह सिध्यति यथा छाद्मस्थिके ज्ञानकर्मणी सहकृत्वरे / क्षायिके अपि विज्ञेये तथैव मतिशालिभिः संप्राप्तकेवलज्ञाना अपि यज्जिनपुङ्गवाः / क्रियां योगनिरोधाख्यां कृत्वा सिध्यन्ति नान्यथा तेन ये क्रियया मुक्ता ज्ञानमात्राभिमानिनः / ते भ्रष्टा ज्ञानकर्मभ्यां नास्तिका नात्र संशयः ज्ञानोत्पत्तिं समुद्भाव्य कामादीनन्यदृष्टितः / अपहृवानैर्लोकेभ्यो नास्तिकैर्वञ्चितं जगत् / ज्ञानस्य परिपाकाद्धि क्रियाऽसङ्गत्वमङ्गति / न तु प्रयाति पार्थक्यं चन्दनादिव सौरभम् 26 // 35 // // 36 // // 37 // // 38 // // 39 // // 40 //