________________ // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // क्षायोपशमिके भावे या क्रिया क्रियते तया / पतितस्यापि तद्भावप्रवृद्धिर्जायते पुनः गुणवृद्धयै ततः कुर्यात् क्रियामस्खलनाय वा / एकं तु संयमस्थानं जिनानामवतिष्ठते अज्ञाननाशकत्वेन ननु ज्ञानं विशिष्यते / न हि रज्जावहिभ्रान्तिर्गमने न निवर्तते सत्यं क्रियागमप्रोक्ता ज्ञानिनोऽप्युपयुज्यते / संचितादृष्टनाशार्थं नासूरोऽपि यदभ्यधात् तण्डुलस्य यथा वर्म यथा ताम्रस्य कालिका / नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलम् जीवस्य तण्डुलस्येव मलं सहजमप्यलम् / नश्यत्येव न संदेहस्तस्मादुद्यमवान् भव .. अविद्या च दिक्षा च भवबीजं च वासना / सहजं च मलं चेति पर्यायाः कर्मणः स्मृताः ज्ञानिनो नास्त्यदृष्टं चेद्भस्मसात्कृतकर्मणः / / शरीरपात: किं न स्याज्जीवनादृष्टनाशतः शरीरमीश्वरस्येव विदुषोऽप्यवतिष्ठते / अन्यादृष्टवशेनेति कश्चिदाह तदक्षमम् शरीरं विदुषः शिष्याद्यदृष्टाद्यदि तिष्ठति / . . तदाऽसुहृददृष्टेन न नश्येदिति का प्रमा न चोपादाननाशेऽपि क्षणं कार्यं यथेष्यते / तार्किकैः स्थितिमत्तद्वच्चिरं विद्वत्तनुस्थितिः निरुपादानकार्यस्य क्षणं यत्तार्किकैः स्थितिः / नाशहेत्वन्तराभावादिष्टा न च स दुर्वचः 205 // 23 // // 24 // // 25 // // 26 // // 27 // // 28 //