________________ विकल्परूपा मायेयं विकल्पेनैव नाश्यते / अवस्थान्तरभेदेन तथा चोक्तं परैरपि // 52 // अविद्ययैवोत्तमया स्वात्मनाशोधमोत्थया / विद्या संप्राप्यते राम ! सर्वदोषापहारिणी // 53 // शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलः / . शमं विषं विषेणैति रिपुणा हन्यते रिपुः // 54 // ईदृशी भूतमायेयं यां स्वनाशेन हर्षद ! / न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैवं नश्यति // 55 // व्रतादिः शुभसंकल्पो निर्णाश्याशुभवासनाम् / / दाह्यं विनैव दहनः स्वयमेव विनश्यति // 56 // इयं नैश्चयिकी शक्तिर्न प्रवृत्तिर्न वा क्रिया / शुभसंकल्पनाशार्थं योगिनामुपयुज्यते' // 57 // द्वितीयापूर्वकरणे क्षायोपशमिका गुणाः / क्षमाद्या अपि यास्यन्ति स्थास्यन्ति क्षायिकाः परम् // 58 // इत्थं यथाबलमनुद्यममुद्यमं च कुर्वन् दशानुगुणमुत्तममान्तरार्थे / चिन्मात्रनिर्भरनिवेशितपक्षपातः प्रातर्युरत्नमिव दीप्तिमुपैति योगी // 59 अभ्यस्य तु प्रविततं व्यवहारमार्ग प्रज्ञापनीय इह सद्गुरुवाक्यनिष्ठः / चिद्दर्पणप्रतिफलत्रिजगद्विवर्ते वर्तेत किं पुनरसौ सहजात्मरूपे // 60 // भवतु किमपि तत्त्वं बाह्यमाभ्यन्तरं वा हृदि वितरति साम्यं निर्मलश्चिद्विचारः / तदिह निचितपञ्चाचारसंचारचारुस्फुरितपरमभावे पक्षपातोऽधिको नः // 61 // स्फुटमपरमभावे नैगमस्तारतम्यं प्रवदतु न तु हृष्येत्तावता ज्ञानयोगी / 22