________________ // 63 // // 64 // कलितपरमभावं चिच्चमत्कारसारम् सकलनयविशुद्धं चित्तमेकं प्रमाणम् हरिरपरनयानां गर्जितैः कुञ्जराणाम् / सहजविपिनसुप्तो निश्चयो नो बिभेति / अपि तु भवति लीलोज्जृम्भिजृम्भोन्मुखेऽस्मिन् गलितमदभरास्ते नोच्छसन्त्येव भीताः कलितविविधबाह्यव्यापकोलाहलौघव्युपरमपरमार्थे भावनापावनानाम् / क्वचन किमिपि. शोच्यं नास्ति नैवास्ति मोच्यं न च किमपि विधेयं नैव गेयं न देयम् इति सुपरिणतात्मख्यातिचातुर्यकेलिभवति यतिपतिर्यश्चिद्भरोद्भासिवीर्यः / . हरहिमकरहारस्फारमन्दारगङ्गा रजतकलशशुभ्रा स्यात्तदीया यशःश्री: सोया यशश्री. क्रियायोगशुद्धिः तृतीयोऽधिकारः यान्येव साधनान्यादौ गृह्णीयाज्ज्ञानसाधकः / सिद्धयोगस्य तान्येव लक्षणानि स्वभावतः . अत एव जगौ यात्रां सत्तपोनियमादिषु / . .. यतनां सोमिलप्रश्ने भगवान् स्वस्य निश्चिताम् अतश्चैव स्थितप्रज्ञभावसाधनलक्षणे / अन्यूनाभ्यधिके प्रोक्ते योगदृष्ट्या परैरपि नाज्ञानिनो विशेष्येत यथेच्छाचरणे पुनः / ज्ञानी स्वलक्षणाभावात्तथा चोक्तं परैरपि 23 // 65 // // 1 // // 2 // ہ // 3 // س // 4 //