________________ // 28 // // 29 // // 30 // // 32 // // 33 // गुणस्थानानि यावन्ति यावन्त्यश्चापि मार्गणाः / तदन्यतरसंश्लेषो नवातः परमात्मनः कर्मोपाधिकृतान् भावान् य आत्मन्यध्यवस्यति / तेन स्वाभाविकं रूपं न बुद्धं परमात्मनः यथा भृत्यैः कृतं युद्धं स्वामिन्येवोपचर्यते / / शुद्धात्मन्यविवेकेन कर्मस्कन्धोजितं तथा मुषितत्वं यथा पान्थगतं पथ्युपचर्यते / तथा व्यवहरत्यज्ञश्चिद्रूपे कर्मविक्रियाम् / स्वत एव समायान्ति कर्माण्यारब्धशक्तितः / एकक्षेत्रावगाहेन ज्ञानी तत्र न दोषभाक् दारुयन्त्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयः / योगिनो नैव बाधायै ज्ञानिनो लोकवर्तिनः प्रारब्धादृष्टजनितात् सामायिकविवेकतः / क्रियापि ज्ञानिनो व्यक्तामौचिती नातिवर्तते संसारे निवसन् स्वार्थसज्जः कज्जलवेश्मनि / ' लिप्यते निखिलो लोको ज्ञानसिद्धो न लिप्यते नाहं पुद्गलभावानां कर्ता कारयिता च न / नानुमन्तापि चेत्यात्मज्ञानवान् लिप्यते कथम् लिप्यते पुद्गलस्कन्धो न लिप्ये पुद्गलैरहम् / चित्रव्योमाञ्जनेनेव ध्यायन्निति न लिप्यते लिप्तता ज्ञानसंपातप्रतिघाताय केवलम् / निर्लेपज्ञानमग्नस्य क्रिया सर्वोपयुज्यते तपःश्रुतादिना मत्तः क्रियावानपि लिप्यते / भावनाज्ञानसंपन्नो निष्क्रियोऽपि न लिप्यते // 34 // // 35 // // 37 // // 38 // * // 39 // 260