________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // सामग्र्येण द्वयालम्बेऽप्यविरोधे समुच्चयः / . विरोधे दुर्नयवाताः स्वशस्त्रेण स्वयं हताः कथं विप्रतिषिद्धानां न विरोधः समुच्चये / अपेक्षाभेदतो हन्त कैव विप्रतिषिद्धता भिन्नापेक्षा यथैकत्र पितृपुत्रादिकल्पना / नित्यानित्याद्यनेकान्तस्तथैव न विरोत्स्यते व्यापके सत्यनेकान्ते स्वरूपपररूपयोः / आनेकान्त्यान्न कुत्रापि निर्णीतिरिति चेन्मतिः ___ अव्याप्यवृत्तिधर्माणां यथावच्छेदकाश्रया / . नापि ततः परावृत्तिस्तत् किं नात्र तथेक्ष्यते आनैगमान्त्यभेदं तत्परावृत्तावपि स्फुटम् / . अभिप्रेताश्रयेणैव निर्णयो व्यवहारकः ' अनेकान्तेऽप्यनेकान्तादनिष्ठैवमपाकृता / नयसूक्ष्मेक्षिकाप्रान्ते विश्रान्तेः सुलभत्वतः . आत्माश्रयादयोऽप्यत्र सावकाशा न कर्हिचित् / / ते हि प्रमाणसिद्धार्थात् प्रकृत्यैव पराङ्मुखाः उत्पन्नं दधिभावेन नष्टं दुग्धतया पयः / . गोरसत्वात् स्थिरं जानन् स्याद्वादद्विड् जनोऽपि कः इच्छन् प्रधानं सत्त्वाद्येविरुद्धैर्गुम्फितं गुणैः / सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् विज्ञानस्यैकमाकारं नानाकारकरम्बितम् / इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् / योगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत् // 42 // // 43 // // 44 // // 45 // // 46 // // 47 // 254