________________ // 3 // = // 4 // = नाऽप्रमाणं प्रमाणं वा, सर्वमप्यविशेषितम् / विशेषितं प्रमाणं स्यादिति सर्वनयज्ञता लोके सर्वनयज्ञानां, ताटस्थ्यं वाऽप्यनुग्रहः / स्यात्पृथङ्नयमूढानां, स्मयार्तिर्वाऽतिविग्रह: श्रेयः सर्वनयज्ञानां, विपुलं धर्मवादतः / शुष्कवादाद्विवादाच्च, परेषां तु विपर्ययः प्रकाशितं जनानां यैर्मतं सर्वनयाश्रितम् / . चित्ते परिणतं चेदं, येषां तेभ्यो नमो नमः निश्चये व्यवहारे च, त्यक्त्वा ज्ञाने च कर्मणि / एकपाक्षिकविश्लेषमारूढाः शुद्धभूमिकाम् अमूढलक्ष्याः सर्वत्र, पक्षपातविवर्जिताः / जयन्ति परमानन्दमयाः, सर्वनयाश्रयाः = . // 7 = // 8 // प्रशस्तिस्वरूपकीर्तनम् पूर्णो मग्नः स्थिरोऽमोहो, ज्ञानी शान्तो जितेन्द्रियः / त्यागी क्रियापरस्तृप्तो, निर्लेपो नि:स्पृहो मुनिः विद्याविवेकसम्पन्नो, मध्यस्थो भयवर्जितः / अनात्मशंसकस्तत्त्वदृष्टिः सर्वसमृद्धिमान् ध्याता कर्मविपाकानामुद्विग्नो भववारिधेः / लोकसंज्ञाविनिर्मुक्तः, शास्त्रदृग् निष्परिग्रहः शुद्धानुभववान् योगी, नियागप्रतिपत्तिमान् / भावार्चाध्यानतपसां भूमिः सर्वनयाश्रितः स्पष्टं निष्टङ्कितं तत्त्वमष्टकैः प्रतिपन्नवान् / मुनिर्महोदयं ज्ञानसारं समधिगच्छति // 3 // // 4 // 248