________________ // 1 // // 2 // 31 तपोऽष्टकम् ज्ञानमेव बुधाः प्राहु:, कर्मणां तापनात्तपः / तदाभ्यन्तरमेवेष्टं, बाह्यं तदुपबृंहकम् आनुश्रोतसिकी वृत्तिर्बालानां सुखशीलता / प्रातिश्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः धनार्थिनां यथा नास्ति, शीततापादि. दुःसहम् / तथा भवविरक्तानां, तत्त्वज्ञानार्थिनामपि सदुपायप्रवृत्तानामुपेयमधुरत्वतः / ज्ञानिनां नित्यमानन्दवृद्धिरेव तपस्विनाम् इत्थं च दुःखरूपत्वात्, तपो व्यर्थमितीच्छताम् / बौद्धानां निहता बुद्धिर्बोद्धानन्दाऽपरिक्षयात् . यत्र ब्रह्म जिनार्चा च, कषायाणां तथा हतिः / सानुबन्धा जिनाज्ञा च, तत्तपः शुद्धमिष्यते . तदेव हि तपः कार्य, दुर्ध्यानं यत्र नो भवेत् / येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि च मूलोत्तरगुणश्रेणिप्राज्यसाम्राज्यसिद्धये / बाह्यमाभ्यन्तरं चेत्थं, तपः कुर्यान् महामुनिः // 4 // // 6 // // 7 // 32 सर्वनयाष्टकम् धावन्तोऽपि नयाः सर्वे, स्युर्भावे कृतविश्रमाः / चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः पृथङ्नया मिथः पक्षप्रतिपक्षकदर्थिताः / समवृत्तिसुखाऽऽस्वादी, ज्ञानी सर्वनयाश्रितः // 2 // .247