________________ = = // 7 // = // 8 // निर्विकारं निराबाधं, ज्ञानसारमुपेयुषाम् / विनिवृत्तपराशानां, मोक्षोऽत्रैव महात्मनाम् चित्तमार्दीकृतं ज्ञानसारंसारस्वतोर्मिभिः / नाप्नोति तीव्रमोहाऽग्निप्लोषशोषकदर्थनाम् अचिन्त्या काऽपि साधूनां, ज्ञानसारगरिष्ठता / गतिर्ययोर्ध्वमेव स्यादधःपातः कदाऽपि न क्लेशक्षयो हि मण्डूकचूर्णतुल्यः क्रियाकृतः / दग्धतच्चूर्णसदृशो, ज्ञानसारकृतः पुनः ज्ञानपूतां परेऽप्याहु:, क्रियां हेमघटोपमाम् / युक्तं तदपि तद्भावं, न यद् भग्नाऽपि सोज्झति क्रियाशून्यं च यज्ज्ञानं, ज्ञानशून्या च या क्रिया / अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव . चारित्रं विरतिः पूर्णा, ज्ञानस्योत्कर्ष एव हि / .. ज्ञानाद्वैतनये दृष्टिया तद्योगसिद्धये . = // 9 // // 10 // // 11 // // 12 // - रचनाक्षेत्रकालादिप्रशस्तिः सिद्धि सिद्धपुरे पुरन्दरपुरस्पर्धावहे लब्धवांश्चिद्दीपोऽयमुदारसारमहसा दीपोत्सवे पर्वणि / एतद्भावनभावपावनमनश्चञ्चच्चमत्कारिणां, . . तैस्तैर्दीपशतैःसुनिश्चयमतैर्नित्योऽस्तु दीपोत्सवः // 13 // केषांचिद्विषयज्वरातुरमहो चित्तं परेषां विषाऽऽवेगोदर्ककुतर्कमूर्च्छितमथान्येषां कुवैराग्यतः / लग्नालर्कमबोधकूपपतितं चास्ते परेषामपि, स्तोकानां तु विकारभाररहितं तज्ज्ञानसाराश्रितम् . // 14 // 249