________________ 1 // // 2 // // 3 // 22 भवोद्वेगाऽष्टकम् यस्य गम्भीरमध्यस्याऽज्ञानवज्रमयं तलम् / रुद्धा व्यसनशैलौघैः, पन्थानो यत्र दुर्गमाः पातालकलशा यत्र, भृतास्तृष्णामहानिलैः / कषायाश्चित्तसंकल्पवेलावृद्धि वितन्वते / स्मरौर्वाग्निर्चलत्यन्तर्यत्र स्नेहेन्धनः सदा। . यो घोररोगशोकादिमत्स्यकच्छपसंकुलः दुर्बुद्धिमत्सरद्रोहैविधुदुर्वातगजितैः / .. यत्र सांयात्रिका लोकाः, पतन्त्युत्पातसङ्कटे ज्ञानी तस्माद् भवाम्भोधेनित्योद्विग्नोऽतिदारुणात् / तस्य सन्तरणोपायं सर्वयत्नेन काङ्क्षति तैलपात्रधरो यद्वद्रांधावेधोद्यतो यथा / .. क्रियास्वनन्यचित्तः स्याद्, भवभीतस्तथा मुनिः विषं विषस्य वह्वेश्च, वह्निरेव यदौषधम् / . तत्सत्यं भवभीतानामुपसर्गेऽपि यन्न भीः स्थैर्यं भवभयादेव, व्यवहारे मुनिव्रजेत् / स्वात्मारामसमाधौ तु, तदप्यन्तर्निमज्जति // 4 // // 6 // // 7 // // 8 // 23 लोकसंज्ञात्यागाऽष्टकम् प्राप्तः षष्ठं गुणस्थानं, भवदुर्गाऽद्रिलङ्घनम् / लोकसंज्ञारतो न स्यान्मुनिर्लोकोत्तरस्थितिः यथा चिन्तामणि दत्ते, बठरो बदरीफलैः / हहा जहाति सद्धर्मं, तथैव जनरञ्जनैः // 2 // 240