________________ // 3 // // 4 // // 5 // // 6 // // 7 // लोकसंज्ञामहानद्यामनुश्रोतोऽनुगा न के / प्रतिश्रोतोऽनुगस्त्वेको, राजहंसो महामुनिः लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत् / तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे च न / - स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मसाधकाः लोकसंज्ञाहता हन्त, नीचैर्गमनदर्शनैः / शंसयन्ति स्वसत्याङ्ग-मर्मघातमहाव्यथाम् आत्मसाक्षिकसद्धर्मसिद्धौ किं लोकयात्रया / तत्र प्रसन्नचन्द्रश्च, भरतश्च निदर्शनम् लोकसंज्ञोज्झितः साधुः, परब्रह्मसमाधिमान् / . सुखमास्ते गतद्रोहममतामत्सरज्वरः 24 शास्त्रदृष्टयष्टकम् चर्मचक्षुर्भूतः सर्वे, देवाश्चाऽवधिचक्षुषः / सर्वतश्चक्षुषः सिद्धाः, साधवः शास्त्रचक्षुषः पुरःस्थितानिवोधिस्तिर्यग्लोकविवर्तिनः / सर्वान् भावानवेक्षन्ते, ज्ञानिनः शास्त्रचक्षुषा शासनात् त्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते / वचनं वीतरागस्य, तत्तु नाऽन्यस्य कस्यचित् शास्त्रे पुरस्कृते तस्माद्, वीतरागः पुरस्कृतः / पुरस्कृते पुनस्तस्मिन्, नियमात् सर्वसिद्धयः अदृष्टार्थेऽनुधावन्तः, शास्त्रदीपं विना. जडाः / प्राप्नुवन्ति परं खेदं, प्रस्खलन्तः पदे पदे 241 // 4 // // 5 //