________________ // 6 // ज्ञानदर्शनचन्द्रार्कनेत्रस्य नरकच्छिदः / सुखसागरमग्नस्य, किं न्यूनं योगिनो हरेः / या सृष्टिब्रह्मणो बाह्या, बाह्यापेक्षावलम्बिनी / मुनेः परानपेक्षाऽन्तर्गुणसृष्टिस्ततोऽधिका रत्नैस्त्रिभिः पवित्रा या श्रोतोभिरिव जाह्नवी / सिद्धयोगस्य साऽप्यर्हत्पदवी न दवीयसी // 7 // // 8 // // 2 // // 3 // 21 कर्मविपाकाचिन्तनाष्टकम् दुःखं प्राप्य न दीन:स्यात् सुखं प्राप्य च विस्मितः / मुनिः कर्मविपाकस्य, जानन् परवशं जगत् येषां भ्रूभङ्गमात्रेण, भज्यन्ते पर्वता अपि / तैरहो कर्मवैषम्ये, भूपैभिक्षाऽपि नाऽऽप्यते / जातिचातुर्यहीनोऽपि, कर्मण्यभ्युदयावहे / क्षणाद्रकोऽपि राजा स्याच्छनच्छनदिगन्तरः विषमा कर्मणः सृष्टिदृष्टा करभपृष्ठवत् / / जात्यादिभूतिवैषम्यात्, का रतिस्तत्र योगिनः ? / आरूढाः प्रशमश्रेणिं, श्रुतकेवलिनोऽपि च / भ्राम्यन्तेऽनन्तसंसारमहो दुष्टेन कर्मणा / अर्वाक् सर्वापि सामग्री, श्रान्तेव परितिष्ठति / विपाकः कर्मणः कार्यपर्यन्तमनुधावति / असावचरमावर्ते, धर्मं हरति पश्यतः / चरमावर्तिसाधोस्तु, च्छलमन्विष्य हृष्यति साम्यं बिभर्ति यः कर्मविपाकं हृदि चिन्तयन् / स एव स्याच्चिदानन्द-मकरन्दमधुव्रतः // // // 5 // // 6 // // // 8 239