________________ . // 4 // ग्रामाऽऽरामादि मोहाय, यदृष्टं बाह्यया दृशा / तत्त्वदृष्ट्या तदेवान्तर्नीतं वैराग्यसम्पदे . बाह्यदृष्टेः सुधासारघटिता भाति सुन्दरी / तत्त्वदृष्टेस्तु सा साक्षाद्विण्मूत्रपिठरोदरी लावण्यलहरीपुण्यं, वपुः पश्यति बाह्यदृग् / तत्त्वदृष्टिः श्वकाकानां, भक्ष्यं कृमिकुलाकुलम् गजाश्वैर्भूपभवनं, विस्मयाय बहिर्दशः / . तत्राऽश्वेभवनात्कोऽपि, भेदस्तत्त्वदृशस्तु न भस्मना केशलोचेन, वपुर्धतमलेन वा। .. महान्तं बाह्यदृग् वेत्ति, चित्साम्राज्येन तत्त्ववित् न विकाराय विश्वस्योपकारायैव निर्मिताः / स्फुरत्कारुण्यपीयुषवृष्टयस्तत्त्वदृष्टयः // 6 // // 7 // // 8 // . // 1 // .. // 2 // 20 सर्वसमृद्ध्यष्टकम् बाह्यदृष्टिप्रचारेषु, मुद्रितेषु महात्मनः / अन्तरेवाऽवभासन्ते, स्फुटाः सर्वाः समृद्धयः समाधिर्नन्दनं धैर्य, दम्भोलि: समता शची / ज्ञानं महाविमानं च, वासवश्रीरियं मुनेः विस्तारितक्रियाज्ञानचर्मच्छत्रो निवारयन् / मोहम्लेच्छमहावृष्टिं चक्रवर्ती न किं मुनिः नवब्रह्मसुधाकुण्डनिष्ठाऽधिष्ठायको मुनिः / नागलोकेशवद् भाति, क्षमां रक्षन् प्रयत्नतः मुनिरध्यात्मकैलाशे, विवेकवृषभस्थितः / शोभते विरतिज्ञप्तिगङ्गागौरीयुतः शिवः // 4 // 238