________________ // 1 // // 2 // 18 अनात्मशंसाऽष्टकम् गुणैर्यदि न पूर्णोऽसि, कृतमात्मप्रशंसया / गुणैरेवाऽसि पूर्णश्चेत्, कृतमात्मप्रशंसया श्रेयोद्रुमस्य मूलानि, स्वोत्कर्षाम्भःप्रवाहतः / पुण्यानि प्रकटीकुर्वन्, फलं किं समवाप्स्यसि ? आलम्बिता हिताय स्युः, परैः स्वगुणरश्मयः / अहो स्वयं गृहीतास्तु, पातयन्ति भवोदधौ उच्चत्वदृष्टिदोषोत्थस्वोत्कर्षज्वरशान्तिकम् / पूर्वपुरुषसिंहेभ्यो, भृशं नीचत्वभावनम् शरीररूपलावण्यग्रामाऽऽरामधनादिभिः / उत्कर्षः परपर्यायै-श्चिदानन्दघनस्य कः शुद्धाः प्रत्यात्मसाम्येन, पर्यायाः परिभाविताः / अशुद्धाश्चाऽपकृष्टत्वान्-नोत्कर्षाय महामुनेः . -- क्षोभं गच्छन् समुद्रोऽपि, स्वोत्कर्षपवनेरितः / गुणौघान् बुद्बुदीकृत्य, विनाशयसि किं मुधा निरपेक्षानवच्छिन्नानन्तचिन्मात्रमूर्तयः / योगिनो गलितोत्कर्षाऽपकर्षाऽनल्पकल्पनाः // 4 // // 5 // // 6 // // 7 // // 8 // 19 तत्त्वदृष्ट्यष्टकम् रूपे रूपवती दृष्टिदृष्ट्वा रूपं विमुह्यति / मज्जत्यात्मनि नीरूपे, तत्त्वदृष्टिस्त्वरूपिणी भ्रमवाटी बहिर्दृष्टिभ्रंमच्छाया तदीक्षणम् / अभ्रान्तस्तत्त्वदृष्टिस्तु, नास्यां शेते सुखाशया 230 // 2 //