________________ // 7 // स्वाऽऽगमं रागमात्रेण, द्वेषमात्रात्परागमम् / न श्रयामस्त्यजामो वा, किन्तु मध्यस्थया दृशा . मध्यस्थया दृशा सर्वेष्वपुनर्बन्धकादिषु / चारिसंजीविनीचारन्यायादाशास्महे हितम् || 8 // 17 निर्भयाऽष्टकम् // 2 // // 3 // // 4 // यस्य नास्ति पराऽपेक्षा, स्वभावाऽद्वैतयामिनः / तस्य किं न भयभ्रान्तिक्लान्तिसन्तानतानवम् भवसौख्येन किं भूरिभयज्वलनभस्मना / सदा भयोज्झितं ज्ञानं, सुखमेव विशिष्यते न गोप्यं क्वापि नाऽऽरोप्यं, हेयं देयं न च क्वचित् / क् भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यतः एकं ब्रह्मास्त्रमादाय, निघ्नन् मोहचमूं मुनिः / बिभेति नैव सङ्ग्रामशीर्षस्थ इव नागराट् मयूरी ज्ञानदृष्टिश्चेत्, प्रसर्पति मनोवने / वेष्टनं भयसर्पाणां, न तदानन्दचन्दने कृतमोहास्त्रवैफल्यं, ज्ञानवर्म बिभर्ति यः / व भीस्तस्य क्व वा भङ्गः, कर्मसङ्गरकेलिषु तूलवल्लघवो मूढा, भ्रमन्त्यभ्रे भयाऽनिलैः / नैकं रोमाऽपि तैनिगरिष्ठानां तु कम्पते चित्ते परिणतं यस्य, चारित्रमकुतोभयम् / . . . अखण्डज्ञानराज्यस्य, तस्य साधोः कुतो भयम् . // 5 // // 7 // // 8 // 235