________________ // 4 // // 6 // // 7 // यथा योधैः कृतं युद्धं, स्वामिन्येवोपचर्यते / शुद्धात्मन्यविवेकेन, कर्मस्कन्धोजितं तथा इष्टकाद्यपि हि स्वर्णं, पीतोन्मत्तो यथेक्षते / आत्माऽभेदभ्रमस्तद्वद्देहादावविवेकिनः इच्छन परमान् भावान्, विवेकाद्रेः पतत्यधः / परमं भावमन्विच्छनाऽविवेके निमज्जति आत्मन्येवात्मनः कुर्यात्, यः षट्कारकसङ्गतिम् / क्वाविवेकज्वरस्यास्य, वैषम्यं जडमज्जनात् संयमास्त्रं विवेकेन, शाणेनोत्तेजितं मुनेः / धृतिधारोल्बणं कर्म-शत्रुच्छेदक्षमं भवेत् 16 माध्यस्थ्याऽष्टकम् स्थीयतामनुपालम्भं, मध्यस्थेनान्तरात्मना / कुतर्ककर्करक्षेपैस्त्यज्यतां बालचापलम् मनोवत्सो युक्तिगवी, मध्यस्थस्याऽनुधावति / तामाकर्षति पुच्छेन, तुच्छाऽऽग्रहमनःकपिः नयेषु स्वार्थसत्येषु, मोघेषु परचालने / समशीलं मनो यस्य, स मध्यस्थो महामुनिः स्वस्वकर्मकृतावेशाः, स्वस्वकर्मभुजो नराः / न रागं नापि च द्वेषं, मध्यस्थस्तेषु गच्छति मनः स्याद् व्यापृतं यावत्, परदोषगुणग्रहे / कार्यं व्यग्रं वरं तावन्मध्यस्थेनात्मभावने विभिन्ना अपि पन्थानः, समुद्रं सरितामिव / मध्यस्थानां परं ब्रह्म, प्राप्नुवन्त्येकमक्षयम् // 2 // // 3 // // 4 // // 5 // // 6 // 235