________________ // 8 // // 2 // // 3 // // 4 // परस्पृहा महादुःखं, नि:स्पृहत्वं महासुखम् / एतदुक्तं समासेन, लक्षणं सुखदुःखयोः 13 मौनाऽष्टकम् मन्यते यो जगत्तत्त्वं, स मुनिः परिकीर्तितः / सम्यक्त्वमेव तन्मौनं, मौनं सम्यक्त्वमेव वा आत्माऽऽत्मन्येव यच्छुद्धं, जानात्यात्मानमात्मना / सेयं रत्नत्रये ज्ञप्तिरुच्याचारैकता मुनेः चारित्रमात्मचरणाज, ज्ञानं वा दर्शनं मुनेः / शुद्धज्ञाननये साध्यं, क्रियालाभात् क्रियानये यतः प्रवृत्तिर्न मणौ, लभ्यते वा न तत्फलम् / अतात्त्विकी मणिज्ञप्तिर्मणिश्रद्धा च सा यथा तथा यतो न शुद्धात्मस्वभावाऽऽचरणं भवेत्. / फलं दोषनिवृत्तिा , न तज्ज्ञानं न दर्शनम् यथा शोफस्य पुष्टत्वं, यथा वा वध्यमण्डनम् / तथा जानन्भवोन्मादमात्मतृप्तो मुनिर्भवेत् सुलभं वागनुच्चारं मौनमेकेन्द्रियेष्वपि / पुद्गलेष्वप्रवृत्तिस्तु, योगानां मौनमुत्तमम् ज्योतिर्मयीव दीपस्य, क्रिया सर्वापि चिन्मयी / यस्याऽनन्यस्वभावस्य, तस्य मौनमनुत्तरम् 14 विद्याऽष्टकम् नित्यशुच्यात्मताख्यातिरनित्याशुच्यनात्मसु / अविद्या तत्त्वधीविद्या, योगाचार्यैः प्रकीर्तिता // 7 // // 8 // 233