________________ // 7 // // 8 // // 1 // तपः श्रुतादिना मत्तः, क्रियावानपि लिप्यते / भावनाज्ञानसम्पन्नो, निष्क्रियोऽपि न लिप्यते अलिप्तो निश्चयेनात्मा, लिप्तश्च व्यवहारतः / शुद्ध्यत्यलिप्तया ज्ञानी, क्रियावान्, लिप्तया दृशा ज्ञानक्रियासमावेशः, सहैवोन्मीलने द्वयोः / भूमिकाभेदतस्त्वत्र, भवेदेकैकमुख्यता सज्ञानं यदनुष्ठानं, न लिप्तं दोषपङ्कतः / . शुद्धबुद्धस्वभावाय, तस्मै भगवते नमः 12 निःस्पृहाऽष्टकम् स्वभावलाभात् किमपि, प्राप्तव्यं नाऽवशिष्यते / इत्यात्मैश्वर्यसम्पन्नो, निःस्पृहो जायते मुनिः संयोजितकरैः के के, प्रार्थ्यन्ते न स्पृहावहैः / अमात्रज्ञानपात्रस्य, निःस्पृहस्य तृणं जगत् छिन्दन्ति ज्ञानदात्रेण, स्पृहाविषलतां बुधाः / . मुखशोषं च मृ»ञ्च, दैन्यं यच्छति यत्फलम् निष्काशनीया विदुषा, स्पृहा चित्तगृहाद् बहिः / / अनात्मरतिचाण्डालीसङ्गमङ्गीकरोति या स्पृहावन्तो विलोक्यन्ते, लघवस्तृणतूलवत् / महाश्चर्यं तथाप्येते, मज्जन्ति भववारिधौ गौरवं पौरवन्द्यत्वात्, प्रकृष्टत्वं प्रतिष्ठया / ख्याति जातिगुणात्स्वस्य, प्रादुष्कुर्यान निःस्पृहः भूशय्या भैक्षमशनं, जीर्णं वासो वनं गृहम् / तथापि नि:स्पृहस्याऽहो, चक्रिणोऽप्यधिकं सुखम् // 2 // // 3 // // 4 // // 6 // // 7 // 232