________________ // 2 // // 3 // // 4 // स्वगुणैरेव तृप्तिश्चेदाकालमविनश्वरी / ज्ञानिनो विषयैः किं तैयैर्भवेत् तृप्तिरित्वरी या शान्तैकरसास्वादाद्भवेत् तृप्तिरतीन्द्रिया / सा न जिर्केन्द्रियद्वारा, षड्रसास्वादनादपि संसारे स्वप्नवन्मिथ्या, तृप्तिः स्यादाभिमानिकी / तथ्या तु भ्रान्तिशून्यस्य, सात्मवीर्यविपाककृत् पुद्गलैः पुद्गलास्तृप्ति, यान्त्यात्मा पुनरात्मना / परतृप्तिसमारोपो, ज्ञानिनस्तन युज्यते मधुराज्यमहाशाकाऽग्राह्ये बाह्ये च गोरसात् / परब्रह्मणि तृप्तिर्या जनास्तां जानतेऽपि न विषयोर्मिविषोद्गारः स्यादतृप्तस्य पुद्गलैः / ज्ञानतृप्तस्य तु ध्यानसुधोद्गारपरम्परा सुखिनो विषयातृप्ता, नेन्द्रोपेन्द्रादयोऽप्यहो / . भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः. // 5 // // 7 // // 8 // // 2 // 11 निर्लेपाऽष्टकम् संसारे निवसन् स्वार्थसज्जः कज्जलवेश्मनि / लिप्यते निखिलो लोको, ज्ञानसिद्रो न लिप्यते नाऽहं पुद्गलभावानां, कर्ता कारयिताऽपि न / नानुमन्ताऽपि चेत्यात्मज्ञानवान् लिप्यते कथम् लिप्यते पुद्गलस्कन्धो, न लिप्ये पुद्गलैरहम् / चित्रव्योमाञ्जनेनेव, ध्यायन्निति न लिप्यते लिप्तता ज्ञानसम्पातप्रतिघाताय केवलम् / निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते 231 // 4 //