________________ // 6 // पुरः पुरः स्फुरत्तृष्णामृगतृष्णाऽनुकारिषु / इन्द्रियार्थेषु धावन्ति, त्यक्त्वा ज्ञानाऽमृतं जडाः पतङ्गभृङ्गमीनेभसारङ्गा यान्ति दुर्दशाम् / एकैकेन्द्रियदोषाच्चेद्, दुष्टैस्तैः किं न पञ्चभिः विवेकद्विपहर्यक्षैः, समाधिधनतस्करैः / इन्द्रियैर्न जितो योऽसौ, धीराणां धुरि गण्यते // 7 // // 8 // // 1 // // 2 // . 8 त्यागाऽष्टकम् संयताऽऽत्मा श्रये शुद्धोपयोगं पितरं निजम् / धृतिमम्बाञ्च पितरौ, तन्मां विसृजतं ध्रुवम् . युष्माकं सङ्गमोऽनादिर्बन्धवोऽनियतात्मनाम् / ध्रुवैकरूपान् शीलादिबन्धूनित्यधुना श्रये / कान्ता. मे समतैवैका, ज्ञातयो मे समक्रियाः / बाह्यवर्गमिति त्यक्त्वा, धर्मसन्न्यासवान् भवेत् धर्मास्त्याज्याः सुसङ्गोत्थाः, क्षायोपशमिका अपि / . प्राप्य चन्दनगन्धाभं, धर्मसन्यासमुत्तमम् गुरुत्वं स्वस्य नोदेति, शिक्षासात्म्येन यावता / आत्मतत्त्वप्रकाशेन, तावत् सेव्यो गुरूत्तमः ज्ञानाऽऽचारादयोऽपीष्टाः, शुद्धस्वस्वपदावधि / निर्विकल्पे पुनस्त्यागे, न विकल्पो न वा क्रिया योगसन्यासतस्त्यागी, योगानप्यखिलांस्त्यजेत् / इत्येवं निर्गुणं ब्रह्म, परोक्तमुपपद्यते 229 // 4 // // 6 // // 7 //