________________ // 3 // - // 4 // प // 7 // // 8 // आरुरुक्षुर्मुनिर्योग, श्रयेद् बाह्यक्रियामपि / योगारूढः शमादेव, शुद्धयत्यन्तर्गतक्रियः ध्यानवृष्टेर्दयानद्याः, शमपूरे प्रसर्पति / विकारतीरवृक्षाणां, मूलादुन्मूलनं भवेत् ज्ञानध्यानतपःशील-सम्यक्त्वसहितोऽप्यहो / तं नाप्नोति गुणं साधुर्यं प्राप्नोति शमाऽन्वितः स्वयम्भूरमणस्पईि-वद्धिष्णुसमतारसः / मुनिर्येनोपमीयेत, कोऽपि नाऽसौ चराचरे शमसूक्तसुधासिक्तं, येषां नक्तंदिनं मनः / . कदापि ते न दह्यन्ते, रागोरगविषोमिभिः गर्जज्ज्ञानगजोत्तुङ्गा, रङ्गध्यानतुरङ्गमाः / जयन्ति मुनिराजस्य, शमसाम्राज्यसम्पदः 7 इन्द्रियजयाऽष्टकम् बिभेषि यदि संसारान्मोक्षप्राप्तिं च काङ्क्षसि / तदेन्द्रियजयं कर्तुं, स्फोरय स्फारपौरुषम् वृद्धास्तृष्णाजलाऽपूर्णैरालवालैः किलेन्द्रियैः / मूर्छामतुच्छां यच्छन्ति, विकारविषपादपाः सरित्सहस्रदुष्पूरसमुद्रोदरसोदरः / तृप्तिमानेन्द्रियग्रामो, भव तृप्तोऽन्तरात्मना आत्मानं विषयैः पाशैर्भववासपराङ्मुखम् / इन्द्रियाणि निबध्नन्ति, मोहराजस्य किङ्कराः गिरिमृत्स्नां धनं पश्यन्, धावतीन्द्रियमोहितः / / अनादिनिधनं ज्ञानं, धनं पार्वे न पश्यति // 1 // / // 2 // // 3 // . // 4 // 228