________________ // 1 // // 2 // = // 3 // 5 ज्ञानाऽष्टकम् मज्जत्यज्ञः किलाऽज्ञाने, विष्ठायामिव शूकरः / ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे निर्वाणप्रदमप्येकं, भाव्यते यन्मुहुर्मुहुः / तदेव ज्ञानमुत्कृष्टं, निर्बन्धो नास्ति भूयसा स्वभावलाभसंस्कार-कारणं ज्ञानमिष्यते / ध्यान्ध्यमात्रमतस्त्वन्यत्, तथा चोक्तं महात्मना वादांश्च प्रतिवादांश्च, वदन्तोऽनिश्चितांस्तथा / तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ स्वद्रव्यगुणपर्याय-चर्या वर्या पराऽन्यथा / इति दत्तात्मसन्तुष्टि-सृष्टिज्ञानस्थितिर्मुनेः अस्ति चेद् ग्रन्थिभिज्ज्ञानं, किं चित्रैस्तन्त्रयन्त्रणैः / प्रदीपा: क्वोपयुज्यन्ते, तमोघ्नी दृष्टिरेव चेत् ? मिथ्यात्वशैलपक्षच्छिज्ज्ञानदम्भोलिशोभितः / निर्भयः शक्रवद्योगी, नन्दत्यानन्दनन्दने पीयूषमसमुद्रोत्थं, रसायनमनौषधम् / .. अनन्याऽपेक्षमैश्वर्यं, ज्ञानमाहुर्मनीषिणः // 4 = = // 6 // = // 7 = // 8 = 6 शमाऽष्टकम् विकल्पविषयोत्तीर्णः, स्वभावाऽऽलम्बनः सदा / ज्ञानस्य परिपाको यः, स शमः परिकीर्तितः अनिच्छन् कर्मवैषम्यं, ब्रह्मांशेन समं जगत् / आत्माऽभेदेन यः पश्ये-दसौ मोक्षंगमी शमी // 1 // // 2 // .227