________________ // 7 // . // 8 // // 2 // स्थैर्यरत्नप्रदीपश्चे-द्दीप्रः सङ्कल्पदीपजैः / . तद्विकल्पैरलं धूमै-रलंधूमैस्तथाऽऽश्रवैः उदीरयिष्यसि स्वान्ता-दस्थैर्य पवनं यदि / समाधेर्धर्ममेघस्य, घट विघटयिष्यसि चारित्रं स्थिरतारूप-मतः सिद्धेष्वपीष्यते / यतन्तां यतयोऽवश्य-मस्या एव प्रसिद्धये 4 मोहत्यागाऽष्टकम् अहं ममेति मन्त्रोऽयं, मोहस्यं जगदान्ध्यकृत् / अयमेव हि नपूर्वः, प्रतिमन्त्रोऽपि मोहजित् शुद्धात्मद्रव्यमेवाऽहं, शुद्धज्ञानं गुणो. मम / .. नान्योऽहं न ममान्ये चे-त्यदो मोहास्त्रमुल्त्रणम् यो न मुह्यति लग्नेषु, भावेष्वौदयिकादिषु / आकाशमिव पकेन, नाऽसौ पापेन लिप्यते पश्यन्नेव परद्रव्य-नाटकं प्रतिपाटकम् / भवचक्रपुरस्थोऽपि, नाऽमूढः परिखिद्यते / विकल्पचषकैरात्मा, पीतमोहाऽऽसवो ह्ययम् / भवोच्चतालमुत्ताल-प्रपञ्चमधितिष्ठति निर्मलं स्फटिकस्येव, सहजं रूपमात्मनः / अध्यस्तोपाधिसम्बन्धो, जडस्तत्र विमुह्यति अनारोपसुखं मोह-त्यागादनुभवन्नपि / आरोपप्रियलोकेषु, वक्तुमाश्चर्यवान् भवेत् यश्चिद्दर्पणविन्यस्त-समस्ताऽऽचारचारुधीः / क्व नाम स परद्रव्ये-ऽनुपयोगिनि मुह्यति ? // 3 // // 4 // 3 w . // 7 // // 8 // 226