________________ इष्टप्रणाशेऽप्यनभीष्टलाभे, नित्यस्वभावं नियतिञ्च जानन् / सन्तापमन्तर्न समाधिवृष्टिविध्यातशोकाग्निरुपैति साधुः // 12 // भीरुर्यथा प्रागपि युद्धकालाद्, गवेषयत्यद्रि-लता-वनादि / क्लीबास्तथाऽध्यात्मविषादभावा समाहिताच्छन्नपदेक्षिणः स्युः 13 / / रणाङ्गणे शूरपरम्परास्तु, पश्यन्ति पृष्ठं नहि मृत्युभीताः / समाहिताः प्रव्रजितास्तथैव, वाञ्छन्ति नोत्प्रव्रजितुं कदाचित् : 14 . न मूत्रविष्ठापिटरीषु रागं, बध्नन्ति कान्तासु समाधिशान्ताः / अनङ्गकीटालयतत्प्रसङ्गमब्रह्मदौर्गन्ध्यभयास्त्यजन्ति // 15 // रम्यं सुखं यद्विषयोपनीतं, नरेन्द्रचकित्रिदशाधिपानाम् / समाहितास्तज्ज्वलदिन्द्रियाग्नि-ज्वालाघृताहुत्युपमं विदन्ति // 16 // स्त्रैणे तृणे ग्राणि च काञ्चने चं, भवे च मोक्षे समतां श्रयन्तः / [तां निवृत्ति काञ्चन वक्ष्यमाणां], समाधिभाजः सुखिता भवन्ति जना मुदं यान्ति समाधिसाम्य-जुषां मुनीनां सुखमेव दृष्ट्वा / .. चन्द्रेक्षणादेव चकोरबालाः, पीतामृतोद्गारपरा भवन्ति // 18 // अपेक्षिताऽन्तःप्रतिपक्षपक्षं, कर्माणि बद्धान्यपि कर्मलक्षैः / प्रभा तमांसीव रवेः क्षणेन, समाधि-सिद्धा समता क्षिणोति 19 संसारिणो नैव निजं स्वरूपं, पश्यन्ति मोहावृतबोधनेत्राः / / समाधिसिद्धा समतैव तेषां, दिव्यौषधं दोषहरं प्रसिद्धम् // 20 // बबन्ध पापं नरकेषु वेद्यं, प्रसन्नचन्द्रो मनसाऽ प्रशान्तः / तत्कालमेव प्रशमे तु लब्धे, समाधिभृत् केवलमाससाद // 21 // षट्खण्डसाम्राज्यभुजोऽपि वश्या, यत्केवलश्रीर्भरतस्य जज्ञे / न याति पारं वचसोऽनुपाधिसमाधिसाम्यस्य विजृम्भितं तत् 22 अप्राप्तधर्माऽपि पुरादिमाईन्माता शिवं यद्भगवत्यवाप / समाधिसिद्धा समतैव हेतुस्तत्रापि बाह्यस्तु न कोऽपि योगः 23 222