________________ स्त्रीभ्रूणगोब्राह्मणघातजातपापादध:पातकृताऽऽभिमुख्याः / दृढप्रहारिप्रमुखाः समाधिसाम्यावलम्बाः पदमुच्चमापुः // 24 // निरञ्जनाः शङ्खवदाश्रयन्तोऽस्खलद्गतित्वं भुवि जीववच्च / वियद्वदालम्बनविप्रमुक्ताः, समीरवच्च प्रतिबन्धशून्याः // 25 // शरत्सरोनीरविशुद्धचित्ता, लेपोज्झिताः पुष्करपत्रवच्च / गुप्तेन्द्रियाः कूमवदेकभावमुपागताः खड्गिविषाणवच्च // 26 // सदा विहङ्गा इव विप्रमुक्ता, भारण्डपक्षीन्द्रवदप्रमत्ताः / शौण्डीर्यभाजो गजवच्च जातस्थामप्रकर्षा वृषभा इवोच्चैः॥ 27 // . दुर्द्धर्षतां सिंहवदब्धिवच्च, गम्भीरतां मन्दरवत् स्थिरत्वम् / प्राप्ताः सितांशूज्ज्वलसौम्यलेश्याः, सूर्या इवात्यद्भुतदीप्तिमन्तः 28 सुजातरूपास्तपनीयवच्च, भारक्षमा एव वसुन्धरावत् / ज्वलत्त्विषो वह्निवदुल्लसन्ति, समाधिसाम्योपगता मुनीन्द्राः॥ 29 // गजाश्च-सिंहा गरुडाश्च नागा, व्याघ्राश्च गावश्च सुरासुराश्च / तिष्ठन्ति पार्वे मिलिताः समाधिसाम्यस्पृशामुज्झितनित्यवैराः // 30 // समाधिसाम्यक्रमतो हि योगक्रियाफलावञ्चकलाभभाजः / / आसादितात्यद्भुतयोगदृष्टि-स्फुरच्चिदानन्दसमृद्धयः स्युः // 31 // यो यो भावो जनयति मुदं वीक्ष्यमाणोऽतिरम्यो, * बाह्यस्तं तं घटयति सुधीरन्तरङ्गोपमानैः / . मग्नस्येत्थं परमसमता-क्षीरसिन्धौ यतीन्दोः, कण्ठाऽऽश्लेषं प्रणयति महोत्कण्ठया द्राग् यशःश्रीः // 32 // 23