________________ // समाधिसाम्यद्वात्रिंशिका // समुद्धतं पारगतागमाब्धेः, समाधिपीयूषमिदं निशम्य / महाशयाः ! पीतमनादिकालात्कषाय-हालाहलमुद्वमन्तु // 1 // विना समाधि परिशीलितेन, क्रियाकलापेन न कर्मभङ्गः / शक्तिं विना किं समुपाश्रितेन, दुर्गेण राज्ञां द्विषतां जयः स्यात् // 2 // अन्तः समाधेः सुखमाकलय्य, बाह्ये सुखे नो रतिमेति योगी / अटेदटव्यां क इवार्थलुब्धो, गृहे समुत्सर्पति कल्पवृक्षे // 3 // इतस्ततो भ्राम्यति चित्तपक्षी, वितत्य यो रत्यरती स्वपक्षौ / स्वच्छन्दता-वारणहेतुरस्य, समाधिसत्पञ्जरयन्त्रणैव // 4 // असह्यया वेदनयाऽपि धीरा, रुजन्ति नात्यन्तसमाधिशुद्धाः / / कल्पान्त कालाग्निमहार्चिषाऽपि, नैव द्रवीभावमुपैति मेरुः // 5 // ज्ञानी तपस्वी परमक्रियावान्, सम्यक्त्ववानप्युपशान्तिशून्यः / प्राप्नोति तं नैव गुणं कदापि, समाहितात्मा लभते शमी यत् 6 नूनं परोक्षं सुखसद्मसौख्यं, मोक्षस्य चात्यन्तपरोक्षमेव / प्रत्यक्षमेकं समतासुखं तु, समाधिसिद्धानुभवोदयानाम् // 7 // प्राणप्रियप्रेमसुखं न भोगास्वादं विना वेत्ति यथा कुमारी / समाधियोगानुभवं विनैव, न वेत्ति लोकः शमशर्म साधोः // 8 // न दोषदर्शिष्वपि रोषपोषो, गुणस्तुतावप्यवलिप्तता नो / न दम्भसंरम्भविधेर्लवोऽपि, न लोभसंक्षोभजविप्लवोऽपि // 9 // लाभेऽप्यलाभेऽपि सुखे च दुःखें, ये जीवितव्ये मरणे च तुल्याः / रत्याप्यरत्यापि निरस्तभावाः, समाधिसिद्धा मुनयस्त एव // 10 // उग्रे विहारे च सुदुष्करायां, भिक्षाविशुद्धौ च तपस्यसोः / समाधिलाभ-व्यवसायहेतोः, क्व वैमनस्यं मुनिपुङ्गवानाम्॥ 11 // 221