________________ आसते जगति सज्जनाः शतं तैरुपैमि नु समं कमञ्जसा। किं न सन्ति गिरयः परःशता मेरुरेव तु बिभर्तु मेदिनीम् // 27 // तत्पदाम्बुरुहषट्पदः स च ग्रन्थमेनमपि मुग्धधीय॑धाम्। यस्य भाग्यनिलयोऽजनि श्रियां सद्म पद्मविजयः सहोदरः // 28 // मत्त एव मृदुबुद्धयश्च ये तेष्वतोऽप्युपकृतिश्च भाविनी। किं च बालवचनानुभाषणानुस्मृतिः परमबोधशालिनाम् // 29 / / अत्र पद्यमपि पाङ्क्तिकं क्वचिद्वर्तते च परिवर्तितं क्वचित्। स्वान्ययोः स्मरणमात्रमुद्दिशंस्तत्र नैष तु जनोऽपराध्यति // 30 // ख्यातिमेष्यति परामयं पुनः सज्जनैरनुगृहीत एंव च। . किं न शंकरशिरोनिवासतो निम्नगा सुविदिता सुरापगा // 31 // यत्र स्याद्वादविद्या परमततिमिरध्वान्तसूर्यांशुधारा निस्ताराज्जन्मसिन्धोः शिवपदपदवी प्राणिनो यान्ति यस्मात् / अस्माकं किं च यस्माद्भवति शमरसैनित्यमाकण्ठतृप्ति जैनेन्द्रं शासनं तद्विलसति परमानन्दकन्दाम्बुवाहः .. // 32 // 220