________________ पूर्वपूर्वतनसूरिहीलना नो तथापि निहतेति दुर्जनः।। तातवागनुविधांयिबालवन्नेयमित्यथ सतां सुभाषितम् // 15 // किं तथापि पलिमन्थमन्थरैरत्र साध्यमिति दुर्जनोदिते / स्वान्ययोरुपकृतिर्नवा मतिश्चेति सज्जननयोक्तिरर्गला // 16 // सप्रसङ्गमिदमाद्यविशिकोपक्रमे मतिमतोपवा(पा)दितम् / चारुतां व्रजति सज्जनस्थिति क्षतासु नियतं खलोक्तिषु // 17 // न्यायतन्त्रशतपत्रभानवे लोकलोचनसुधाञ्चनत्विषे / पापशैलशतकोटिमूर्तये सज्जनाय सततं नमोनमः // 18 // भूषिते बहुगुणे तपागणे श्रीयुतैविजयदेवसूरिभिः / भूरिसूरितिलकैरपि श्रिया पूरितैर्विजयसिंहसूरिभिः // 19 // धाम भास्वदधिकं निरामयं रामणीयकमपि प्रसृत्वरम् / नाम कामकलशातिशायिनामिष्टपूर्तिषु यदीयमञ्चति // 20 // यैरुपेत्य विदुषां सतीर्थ्यतां स्फीतजीतविजयाभिधावताम् / धर्मकर्म विदधे जयन्ति ते श्रीनयादिविजयाभिधा बुधाः // 21 // उद्यतैरहमपि प्रसद्य तैस्तर्कतन्त्रमधिकाशि पाठितः। एष तेषु धुरि लेख्यतां ययौ सद्गुणस्तु जगतां सतामपि // 22 // येषु येषु तदनुस्मृतिर्भवेत्तेषु धावति च दर्शनेषु धीः / यत्र यत्र मरुदेति लभ्यते तत्र तत्र खलु पुष्पसौरभम् // 23 // तद्गुणैर्मुकुलितं रखे: करैः शास्त्रपद्ममिह मन्मनोहदात्। उल्लसन्नयर्परागसङ्गतं सेव्यते सुजनषट्पदव्रजैः // 24 // निर्गुणो बहुगुणैर्विराजितांस्तान् गुरूनुपकरोमि कैर्गुणैः। वारिदस्य ददतो हि जीवनं किं ददातु बत चातकार्भकः // 25 // प्रस्तुतश्रमसमर्थितैर्नयैर्योग्यदानफलितैस्तु तद्यशः। यत्प्रसर्पति सतामनुग्रहादेतदेव मम चेतसो मुदे // 26 // ..... 210