________________ दुर्जनस्य रसना सनातनी, सङ्गति न परुषस्य मुञ्चति। सज्जनस्य तु सुधातिशायिनः, कोमलस्य वचनस्य केवलम् // 3 // या द्विजिह्वदलना घनादराद्यात्मनीह पुरुषोत्तमस्थितिः। याप्यनन्तगतिरेतयेष्यते, सज्जनस्य गरुडानुकारिता // 4 // सज्जनस्य विदुषां गुणग्रहे, दूषणे निविशते खलस्य धीः / चक्रवाकदृगहर्पतेर्युतौ, घूकदृक् तमसि सङ्गमङ्गति // 5 // दुर्जनैरिह सतामुपक्रिया, तद्वचोविजयकीर्तिसंभवात्। व्यातनोति जिततापविप्लवां, वह्निरेव हि सुवर्णशुद्धताम् // 6 // याकलङ्किवसतेन सक्षया, या कदापि न भुजङ्गसङ्गता। . गोत्रभित्सदसि या न सा सतां, वाचि काचिदतिरिच्यते सुधा // 7 // दुर्जनोद्यमतपतपूर्तिजात्तापतः श्रुतलता क्षयं व्रजेत् / नो भवेद्यदि गुणाम्बुवर्षिणी, तत्र सज्जनकुंपा तपात्ययः (या) // 8 // तन्यते सुकविकीर्ति वारिधौ दुर्जनेन वडवानलव्यथा / सज्जनेन तु शशाङ्ककौमुदी सङ्गरङ्गवदहो महोत्सवः // 9 // यद्यनुग्रहपरं सतां मनो दुर्जनात् किमपि नो भयं तदा। सिंह एव तरसा वशीकृते किं भयं भुवि श्रृगालबालकात् // 10 // खेदमेव तनुते जडात्मनां सज्जनस्य तु मुदं कवेः कृतिः / स्मेरता कुवलयेऽपीडन(ऽबुजे व्यथा)चन्द्रभासि भवतीति हि स्थितिः // 11 // न त्यजन्ति कवयः श्रुतश्रमं संमुदैव खलपीडनादपि / स्वोचिताचरणबद्धवृत्तयः साधवः शमदमक्रियामिव // 12 // नव्यतन्त्ररचनं सतां रतेस्त्यज्यते न खलखेदतो बुधैः। . नैव भारभयतो विमुच्यते शीतरक्षणपटीयसी पटी // 13 // आगमे सति नवः श्रमो मदान्न स्थितेरिति खलेन दूष्यते / नौरिवेह जलधौ प्रवेशकृत् सोऽयमित्यथ सतां सदुत्तरम् // 14 // 218