________________ // 24 // // 25 // // 26 // // 27 // स्वतः प्रवृत्तिसाम्राज्यं किं चाखण्डसुखेच्छया / निराबाधं च वैराग्यमसङ्गे तदुपक्षयात् समानायव्ययत्वे च वृथा मुक्तौ परिश्रमः / गुणहानेरनिष्टत्वात्ततः सुष्ठूच्यते ह्यदः दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते / न हि मूर्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधी: एतेनैतदपास्तं हि पुमर्थत्वेऽप्रयोजकम् / तज्ज्ञानं दुःखनाशश्च वर्तमानोऽनुभूयते गुणहानेरनिष्टत्वं वैराग्यान्नाथ वेद्यते / इच्छाद्वेषौ विना नैवं प्रवृत्तिः सुखदुःखयोः अशरीरं वा वसन्तमित्यादिश्रुतितः पुनः / सिद्धो हन्त्युभयाभावो नैकसत्तां यतः स्मृतम् सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् / . तं वै मोक्षं विजानीयादुष्प्रापमकृतात्मभिः. उपचारोऽत्र नाबाधात् साक्षिणी चात्र दृश्यते / . नित्यं विज्ञानमानन्दं ब्रह्मेत्यप्यपरा श्रुतिः परमानं दलयतां परमानं दयावताम् / परमानन्दपीनाः स्मः परमानन्दचर्चया // 28 // // 30 // // 31 // // 32 // . सज्जनस्तुतिद्वात्रिंशिका // 32 // नाम सज्जन इति त्रिवर्णकं, कर्णकोटरकुटुम्बि चेद्भवेत् / नोल्लसन्ति विषशक्तयस्तदा, दिव्यमन्त्रनिहताः खलोक्तयः // 1 // स्याबेली बलमिह प्रदर्शयेत्, सज्जनेषु यदि सत्सु दुर्जनः / किं बलं नु तमसोऽपि वर्ण्यते, यद्भवेदसति भानुमालिनि // 2 // 217