________________ पुंसः स्वरूपावस्थानं सेति सांख्याः प्रचक्षते / / तेषामेतदसाध्यत्वं वज्रलेपोऽस्ति दूषणम् // 12 // पूर्वचित्तनिवृत्तिः साग्रिमानुत्पादसंगता / इत्यन्ये श्रयते तेषामनुत्पादो न साध्यताम् // 13 // सात्महानमिति प्राह चार्वाकस्तत्तु पाप्मने / तस्य हातुमशक्यत्वात्तदनुद्देशतस्तथा / // 14 // . नित्योत्कृष्टसुखव्यक्तिरिति तौतातिता जगुः / / नित्यत्वं चेदनन्तत्वमत्र तत्संमतं हि न: // 15 // अथानादित्वमेतच्चेत्तथाप्येष नयोऽस्तु नः / सर्वथोपगमे च स्यात्सर्वदा तदुपस्थितिः // 16 // वेदान्तिनस्त्वविद्यायां निवृत्तायां विविक्तता / सेत्याह सापि नो तेषामसाध्यत्वादवस्थितेः // 17 // कृत्स्नकर्मक्षयो मुक्तिरित्येष तु विपश्चिताम् / स्याद्वादामृतपानस्योद्गारः स्फारनयाश्रयः // 18 // ऋजुसूत्रादिभिर्ज्ञानसुखादिकपरम्परा / / व्यङ्ग्यमावरणोच्छित्त्या सङ्ग्रहेणेष्यते सुखम् क्षयः प्रयत्नसाध्यस्तु व्यवहारेण कर्मणाम् / न चैवमपुमर्थत्वं द्वेषयोनिप्रवृत्तितः - // 20 // दुःखद्वेषे हि तद्धेतून् द्वेष्टि प्राणी नियोगतः / जायतेऽस्य प्रवृत्तिश्च ततस्तन्नाशहेतुषु . // 21 // अन्यत्राप्यसुखं मा भून्माङोऽर्थेऽत्रान्वयः स्थितः / . दुःखस्यैवं समाश्रित्य स्वहेतुप्रतियोगिताम् // 22 // स्वतोऽपुमर्थताप्येवमिति चेत् कर्मणामपि / शक्त्या चेन्मुख्यदुःखत्वं स्याद्वादे किं नु बाध्यताम् / // 23 // 216