________________ . س // 4 // م मुक्तिद्वात्रिंशिका // 31 // दुःखध्वंस: परो मुक्तिर्मानं दुःखत्वमत्र च / आत्मकालान्यगध्वंसप्रतियोगिन्यवृत्तिमत् // 1 // सत्कार्यमात्रवृत्तित्वात् प्रागभावोऽसुखस्य यः / तदनाधारगध्वंसप्रतियोगिनि वृत्तिमत् // 2 // दीपत्ववदिति प्राहुस्तार्किकास्तदसंगतम् / बाधावृत्तिविशेषेष्टावन्यथार्थान्तराव्ययात् // 3 // विपक्षबाधकाभावादनभिप्रेतसिद्धितः / अन्तरैतदयोग्यत्वाशङ्का योगापहेति चेत् नैवं शमादिसंपत्त्या स्वयोग्यत्वविनिश्चयात् / न चान्योऽन्याश्रयस्तस्याः संभवात् पूर्वसेवया / शमाद्युपहिता हन्त योग्यतैव विभिद्यते / तदवच्छेदकत्वेन संकोचस्तेन तस्य न संसारित्वेन गुरुणा शमादौ च न हेतुता / भव्यत्वेनैव किं त्वेषेत्येतदन्यत्र दर्शितम् परमात्मनि जीवात्मलयः सेति त्रिदण्डिनः / लयो लिङ्गव्ययोऽत्रेष्टो जीवनाशश्च नेष्यते // 8 // बौद्धास्त्वालयविज्ञानसन्ततिः सेत्यकीर्तयन् / विनान्वयिनमाधारं तेषामेषा कदर्थना . // 9 // विवर्तमानज्ञेयार्थापेक्षायां सति चाश्रये / अस्यां विजयतेऽस्माकं पर्यायनयदेशना // 10 // स्वातन्त्र्यं मुक्तिरित्यन्ये प्रभुता तन्मदः क्षयी / अथ कर्मनिर्वृत्तिश्चेत् सिद्धान्तोऽस्माकमेव सः // 11 // م م م م 215