________________ // 21 // // 22 // // 24 // // 25 // = // 26 // = रासनं च मतिज्ञानमाहारेण भवेद्यदि / घ्राणीयं स्यात्तदा पुष्पं घ्राणतर्पणयोगतः . . ईर्यापथप्रसङ्गश्च समोऽत्र गमनादिना / अक्षते ध्यानतपसी स्वकालासंभवे पुनः परमौदारिकं चाङ्गं भिन्नं चेत्तत्र का प्रमा / औदारिकादभिन्नं चेद्विना भुक्तिं न तिष्ठति भुक्त्याद्यदृष्टं संबन्धमदृष्टं स्थापकं तनोः / तत्त्यागे दृष्टबाधा त्वत्पक्षभक्षणराक्षसी , प्रतिकूलानिवर्त्यत्वात्तत्तनुत्वं च नोचितम् / दोषजन्मतनुत्वं च निर्दोषे नोपपद्यते परोपकारहानिश्च नियतावसरस्य न / पुरीषादिजुगुप्सा च निर्मोहस्य न विद्यते ततोऽन्येषां जुगुप्सा चेत्सुरासुरनृपर्षदि / नाग्र्येऽपि न कथं तस्यातिशयश्चोभयोः समः . स्वतो हितमिताहाराद्वयाध्युत्पत्तिश्च कापि न / . ततो भगवतो भुक्तौ पश्यामो नैव बाधकम् तथापि ये न तुष्यन्ति भगवद्भुक्तिलज्जया / सदाशिवं भजन्तां ते नृदेहादपि लज्जया दोषं वृथा पृथक्कृत्य भवोपग्राहिकर्मजम् / बध्नन्ति पातकान्याप्तं दूषयन्तः कदाग्रहात् कलकैः कल्पितैर्दुष्टैः स्वामी नो नैव दूष्यते / चौराद्युत्क्षिप्तधूलीभिः स्पृश्यते नैव भानुमान् परमानन्दितैरित्थं दिगम्बरविनिग्रहात् / प्राप्तं सिताम्बरैः शोभा जैनं जयति शासनम् // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // 214