________________ // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // घातिकर्मक्षयादेवाक्षता च कृतकृत्यता / तदभावेऽपि नो बाधा भवोपग्राहिकर्मभिः आहारसंज्ञा चाहारतृष्णाख्या न मुनेरपि / किं पुनस्तदभावेन स्वामिनो मुक्तिबाधनम् अनन्त च सुखं भर्तुर्ज्ञानादिगुणसंगतम् / क्षुधादयो न बाधन्ते पूर्णं त्वस्ति महोदये दग्धरज्जुसमत्वं च वेदनीयस्य कर्मणः / वदन्तो नैव जानन्ति सिद्धान्तार्थव्यवस्थितिम् पुण्यप्रकृतितीव्रत्वादसाताद्यनुपक्षयात् / स्थितिशेषाद्यपेक्षं वा तद्वचो व्यवतिष्ठते इन्द्रियोद्भवताध्रौव्यं बाह्ययोः सुखदुःखयोः / चित्रं पुनः श्रुतं हेतुः कर्माध्यात्मिकयोस्तयोः / आहारादिप्रवृत्तिश्च मोहजन्या यदीष्यते / देशनादिप्रवृत्त्यापि भवितव्यं तदा तथा यत्नं विना निसर्गाच्चेद्देशनादिकमिष्यते / . भुक्त्यादिकं तथैव स्यादृष्टबाधा समोभयोः भुक्त्या या सातवेद्यस्योदीरणापाद्यते त्वया / सापि देशनयाऽसातवेद्यस्यैतां तवाक्षिपेत् उदीरणाख्यं करणं प्रमादव्यङ्ग्यमत्र यत् / तस्य तत्त्वमजानानः खिद्यसे स्थूलया धिया आहारकथया हन्त प्रमादः प्रतिबन्धतः / तंदभावे. च नो भुक्त्या श्रूयते सुमुनेरपि निद्रा नोत्पाद्यते भुक्त्या दर्शनावरणं विना / उत्पाद्यते न दण्डेन घटो मृत्पिण्डमन्तरा // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // . 213