________________ // 30 // विनयस्य प्रधानत्वद्योतनायैव पर्षदि। . . तीर्थं तीर्थपतिर्नत्वा कृतार्थोऽपि कथां जगौ छिद्यते विनयो यैस्तु शुद्धोञ्छादिपरैरपि / तैरप्यग्रेसरीभूय मोक्षमार्गो विलुप्यते नियुङ्क्ते यो यथास्थानमेनं तस्य तु सन्निधौ / / स्वयंवराः समायान्ति परमानन्दसंपदः // 32 // केवलिभुक्तिव्यवस्थापनद्वात्रिंशिका // 30 // सर्वथा दोषविगमात् कृतकृत्यतया तथा / आहारसंज्ञाविरहादनन्तसुखसंगतेः // 1 // दग्धरज्जुसमत्वाच्च वेदनीयस्य कर्मणः / अक्षोद्भवतया देहगतयोः सुखदुःखयोः // 2 // मोहात्परप्रवृत्तेश्च सातवेद्यानुदीरणात् / / प्रमादजननादुच्चैराहारकथयापि च // 3 // भुक्त्या निद्रादिकोत्पत्तेस्तथा ध्यानतपोव्ययात् / परमौदारिकाङ्गस्य स्थास्तुत्वात्त विनापि च परोपकारहानेश्च पुरीषादिजुगुप्सया / व्याध्युत्पत्तेश्च भगवान् भुङ्क्ते नेति दिगम्बराः (पञ्चभिः कुलकम्) // 5 // सिद्धान्तश्चायमधुना लेशेनास्माभिरुच्यते / दिगम्बरमतव्यालपलायनकलागुरुः // 6 // हन्ताज्ञानादिका दोषा घातिकर्मोदयोद्भवाः / तदभावेऽपि किं न स्याद्वेदनीयोद्भवा क्षुधा // 7 // अव्याबाधविघाताच्चेत्सा दोष इति ते मतम् / नरत्वमपि दोषः स्यात्तदा सिद्धत्वदूषणात् // 8 // 212