________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // = विनयं ग्राह्यमाणो यो मृदूपायेन कुप्यति / उत्तमां श्रियमायान्तीं दण्डेनापनयत्यसौ त्रैलोक्येऽपि विनीतानां दृश्यते सुखमङ्गिनाम् / त्रैलोक्येऽप्यविनीतानां दृश्यतेऽसुखमङ्गिनाम् ज्ञानादिविनयेनैव पूज्यत्वाप्तिः श्रुतोदिता / गुरुत्वं हि गुणापेक्षं न स्वेच्छामनुधावति विनये च श्रुते चैव तपस्याचार एव च / चतुर्विधः समाधिस्तु दर्शितो मुनिपुङ्गवैः शुश्रूषति विनीतः सन् सम्यगेवावबुध्यते / यथावत् कुरुते चार्थं मदेन च न माद्यति श्रुतमेकाग्रता वा मे भवितात्मानमेव वा / . स्थापयिष्यामि धर्मेऽन्यं वेत्यध्येति सदागमम् कुर्यात्तपस्तथाचारं नैहिकामुष्मिकाशया / . कीर्त्याद्यर्थं च नो किं तु निष्कामो निर्जराकृते इत्थं समाहिते स्वान्ते विनयस्य फलं भवेत् / स्पर्शाख्यं स हि तत्त्वाप्तिर्बोधमात्रं परः पुनः अक्षेपफलद: स्पर्शस्तन्मयीभावतो मतः / यथा सिद्धरसस्पर्शस्ताने सर्वानुवेधतः / / इत्थं च विनयो मुख्य- सर्वानुगमशक्तितः / मिष्टान्नेष्विव सर्वेषु निपतन्निक्षुजो रसः दोषाः किल तमांसीव क्षीयन्ते विनयेन च / प्रसृतेनांशुजालेन चण्डमार्तण्डमण्डलात् श्रुतस्याप्यतिदोषाय ग्रहणं विनयं विना / यथा महानिधानस्य विना साधनसन्निधिम् // 24 // // 25 // // 26 // // 27 // // 28 // = // 29 // . 211